पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६६१ वन्दारुः प्रभुपादाब्जं राजीमत्यपि तां महीम् । श्रद्धालुर्मालतीगन्धं भृङ्गीवागात्समुत्सुका ॥ ३२५ ।। गजादुत्तीर्य साम्राज्यलक्षणानि विमुच्य च । प्रविवेशोत्तरद्वारां हरिः प्रभुसभां मुदा ॥ ३२६ ॥ स त्रिः प्रदक्षिणापूर्वं नम्रो नाथमवन्दत । अनुशक्रं न्यषीदच्च यथास्थानं परेऽपि च ॥ ३२७ ॥ अथोद्धर्तुमना जन्तून्भवकूपोदरात्प्रभुः। देशनां रज्जुदेशीयामाततान कृपार्णवः ॥ ३२८ ॥ आयुर्वायुचलाम्भोजपत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेगगर्वसर्वकषाः श्रियः ।। ३२९ ।। यौवनं सर्वसत्त्वानां धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्लेशोपगमाः प्रियसंगमाः ॥ ३३० ॥ वपुर्वपुष्मतां प्रायो विपदेकनिकेतनम् । पुत्रमित्रकलत्राद्याः प्रदत्तविविधाधयः ॥ ३३१ ॥ संसारस्तदसौ सारवस्तुशून्यो न संशयः। सारं तु ज्ञानसम्यक्त्वचारित्राण्येव केवलम् ॥ ३३२ ॥ जीवाजीवादितत्त्वानां सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेयमुपादाय विमुच्यते ॥ ३३३ ॥ सुलभाः प्राणिनां प्रायस्त्रिदशाधिपसंपदः । शेवधिः सिद्धिसौख्यानां सम्यक्त्वं त्वतिदुर्लभम् ॥३३४॥ भूयिष्ठे कर्मणि क्षीणे कैश्चिच्चारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे चिन्तारत्नं न किंचन ॥ ३३५॥ भवदावानलज्वालानिर्वापणनवाम्बुदः । विवेकिनो मनःकेकिमुदे स्यात्सर्वसंयमः ॥ ३३६ ॥ निशम्य देशनामेनामेनोघ्नी स्वामिनो मुखात् । उत्थाय प्रार्थयांचक्रे वरदत्तनृपो व्रतम् ॥ ३३७ ।।