पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६० काव्यमाला। ततो विश्वप्रभुर्घातं निर्मातुं घातिकर्भणाम् । विजहार महीहारः पुरीग्रामाकुलामिलाम् ॥ ३१२ ॥ द्वारवत्यामथायाताः पाण्डवाः सह शार्ङ्गिणा । गतं नाज्ञासिषुः कालमानन्दैकवशंवदाः ।। ३१३ ॥ विहृत्य नेमिनाथोऽपि चतुष्पञ्चाशतं दिनान्(?) । उपाजगाम तत्रैव सहस्रांमवणे पुनः॥३१४ ॥ तत्राष्टमतपःस्थस्य वेतसद्रुतले प्रभोः । आश्विने दर्शपूर्वाह्ने चित्रास्वजनि केवलम् ॥ ३१५ ॥ सद्यः सुरेश्वरास्तस्मिन्नुपेत्यासनकम्पतः । चक्रुः समवसरणं वप्रैस्त्रिभिरलंकृतम् ॥ ३१६ ।। प्राग्द्वारेण प्रविश्याथ विंशधन्वशतोच्छ्रयम् । तत्र प्रदक्षिणीकृत्य विधिवच्चैत्यपादपम् ॥ ३१७॥ तीर्थंकरः सोऽथ नमस्तीर्थायेत्युक्तिपूर्वकम् । प्राचि सिंहासने प्राचीसंमुखः समुपाविशत् ॥ ३१८ ॥ (युग्मम्) त्रिषु सिंहासनेष्वन्येष्वन्यत्रापि दिशां त्रये । अमरा व्यन्तरास्ते तु प्रतिरूपाणि चक्रिरे ॥ ३१९ ।। ततश्चतुर्विधा देवा देव्यश्च स्वाभिसमुखाः । उपाविशन्यथाभूमि कुङ्मलीकृतपाणयः॥ ३२०॥ तदा रैवतकोद्यानपालकाश्चक्रपाणये । प्रभोर्ज्ञानोत्सवोदन्तं वेगादेत्य न्यवेदयन् ॥ ३२१ ॥ कोटीर्द्वादश रूप्यस्य सार्धास्तेभ्यो ददौ हरिः । उपवाह्येभमारुह्य भत्त्युत्तालश्चचाल च ॥ ३२२ ॥ समं पित्रा पितृव्यैश्च मातृभ्रातृसुतैस्तथा । पृथक्स्तम्बेरमारूढैरन्वितः पाण्डवैरपि ॥ ३२३ ॥ समग्रेणावरोधेन पौरलोकैश्च संयुतः । द्वारवत्याः पतिः प्राप ज्ञानोत्सवमुवं विभोः ॥ ३२४ ।।