पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

PAN पाण्डवचरितम् । मन्ये दातुं दुःखमिदं व्य वरं नेमिं कृताई भोगसंमुखी ।। कृताहं २७ प्रागप्येतन्मया ज्ञातं नायं मे भविता वरः। आरोहति कटुस्तुम्बी किमु कल्पमहीरुहस् ॥ २७४/ आत्मैकशरणं स्वामिन्ममाहत्यात्यजः कथम् । जहाति जातु नाङ्कथं शशमप्यादृतं शशी ॥ २७५ भूर्भुवः स्वस्त्रयेऽप्येकस्त्वमाशाकल्पपादपः । मां तु प्रत्यन्यथाकारं कथंकारमभूः प्रभो ॥२७६ अरण्यमालतीपुण्यत्पुष्पसब्रह्मचारिभिः । नाथ त्वया विमुक्तायाः किमेमिर्मम भूषणैः ॥ २७४ स्वामिन्मनोहरेणापि हारेण किमनेन मे। कन्दर्पकलहे येन कण्ठे पाशायितं न ते ।। २७८ इमे रत्नमये स्वामिन्कुण्डले मे बिडम्बना । न ये रहसि सोल्लुण्ठे लुलिते त्वत्कपोलयोः ॥२७९ एषा संप्रति दुःखाय मे खला मेखला खलु । नैव या रहसि स्पृष्टा पाणिना प्रणयात्वया ॥ २८० ।। एतौ बहुद्युती बाह्वोर्मम रत्नाङ्गदौ गदौ । निर्ममज्जतुराश्लेषे न यौ ते कण्ठकन्दले ॥ २८१ ॥ इति नेमिं प्रति प्रेम्णा व्याहरन्ती मुहुर्मुहुः । तत्याज सर्वमाकल्पजातं राजीमती तदा ॥ २८२ ।। मुहुर्लुलोठ भूपीठे वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साथ नेमिवियोगिनी ॥ २८३ ॥ इत्थं विसंस्थुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वती चेष्टाः सख्यस्तामेवमभ्यधुः ।। २८४ ॥ सखि प्रक्षीणदाक्षिण्ये नीरसेऽस्मिन्नलौकिके । प्रदत्तदेहसंदेहः स्नेहः कोऽयं वरे तव ॥ २८५ ॥