पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सस्तम्भं सहरोमाञ्चं सखेदं सहवेपथु । नव्यनव्योल्लसद्भावं विभरामास सा वपुः ।। २०८ ॥ क्षणादथ वितीर्णौष्ठवैवर्ण्याः क्लमितस्रजः । प्रसरन्ति स्म निश्वासा राजीमत्या मुखाम्बुजात् ॥ २०९ ॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः। श्यामीभवन्मुखाः सख्यः पप्रच्छुस्तां समुत्सुकाः ॥ २१०॥ हहा सखि किमेतत्ते दुर्निमित्तमुपस्थितम् । निषसाद विषादोऽयं यदानन्दपदे तव ।। २११ ।। सा जल्पति स्म सख्यः किं निर्भाग्य कथयामि वः। स्पन्दते दक्षिणं चक्षूरूरुः स्फुरति दक्षिणः ॥ २१२ ।। सख्योऽवोचविचस्ते धिक्सखि शान्तममङ्गलम् । सर्वतोऽपि करिष्यन्ति कुशलं कुलदेवताः ॥ २१३ ॥ मुश्चान्यदमिषिञ्च स्वं स्खभर्तुर्दर्शनामृतैः । संतापस्य तवास्य स्तादिदमेव महौषधम् ॥ २१४ ॥ इति प्रह्विकृता यावत्सखीभिः सा विलोक्यते । लोकारब्धस्तवस्ताबद्वरो दृङ्मार्गमभ्यगात् ।। २१५ ॥...' सूक्ष्मवादरमसा प्राणातिपातमाजन्मकृतं निन्दाम्यहं त्रिधा हास्यलोभभयक्रोधैः पीडाकारि परस्य यत् ।। अजल्पिषं मृषा किंचित्तत्सर्वं व्युत्सृजाम्या ६२ ।। अल्पमल्पेतरं वा या प्रकीयं मया, दुष्टः कष्टं तपस्तेपे युष्मद्वधविधिस्सया ॥ ६३ ॥ तुष्टाव तपसा तेन काचिदभ्येत्य देवता वरं वत्स वृणीष्वेति निजगाद जयद्रथम् ॥ ६४ ॥ सोऽथ मे दुस्तपस्यास्य यद्यस्ति तपसः फलम् । ततो बन्धाय पाण्डूनां स्वामित्येतामयाचत ॥ ६५॥