पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । साप्यवोचदवाच्यैव वाचोयुक्तिरियं त्वया । संविधातुं वधं वत्स नैषामाखण्डलोऽप्यलम् ॥ ६६ ॥ आयुश्चरमदेहानामेषां हि निरुपक्रमम् । यदेते व्रतमादाय तीर्थ सेत्स्यन्ति नेमिनः ।। ६७ ॥ तदेतेषां वधे मा स्म कृथा मिथ्यामनोरथान् । केवलं दुष्करस्यैतद्भावि ते तपसः फलम् ॥ ६८ ॥ यद्भवन्पाण्डवानेतान्कुरुब्यूहे विविक्षतः । दिनमेकं रणच्छेको लीलया स्वलयिष्यति ॥ ६९ ॥ इति तस्मै समाख्याय देवता सा तिरोदधे । कृतं युप्मासु तेनापि यत्किंचिद्वेसि तत्खयम् ॥ ७० ॥ तदेतत्तव कौन्तेय तपोमाहात्म्यमीरितम् । भावोऽधुना सर्वधर्मधुर्यस्तुर्यो निशम्यताम् ॥ ७१ ॥ सर्वदैवातिदुर्लम्भो भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ।। ७२ ।। एतस्मादेव कौन्तेय सञ्चारित्रपचेलिमान् । मोक्षोऽपि कर्मनिर्मोक्षलक्षणरतत्क्षणाद्भवेत् ।। ७३ ।। चारित्रावाप्तिसंपन्नतत्त्वज्ञानेन ते मया । नववृत्तमावेतौ धर्ममोक्षावुदाहृतौ ॥ ७४ ॥ एतौ विधिवन्नित्यमुपासीथास्त्वमप्यमूः । निर्ममजारम्भपाप्मनो येन मुच्यसे ॥ ७५ ॥ इति नानत्यगर्जिवन्मदेशनाम् । तत्याज सर्वमाकरजातं राजामता १५ ॥ मुहुर्लुलोठ भूपीठे वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साथ नेमिवियोगिनी ।। २८३ ।। इत्थं विसंस्थुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वतीं चेष्टाः सख्यस्तामेवमभ्यधुः ॥२८४ ॥ सखि प्रक्षीणदाक्षिण्ये नीरसेऽस्मिन्नलौकिके। 4 नवे que in