पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६३० काव्यमाला। धन्यैर्ज्ञानप्रदीपेन निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ ५३ ॥ वस्तुना येन दत्तेन साधोः सिध्यति संयमः । तृतीयं तदुपष्टम्भदानमाम्नातमर्हता ॥ ५४॥ प्रीत्युदञ्चितरोमाञ्चः कर्मक्षयकृते क्षमी । वस्तुकल्पं सुपात्राय ददीत विगतस्पृहः ॥ ५५ ॥ काले दानं सुपात्रेभ्यः सद्गुरूणां समागमः । भवाब्धौ बोधिलाभश्च भाग्यलभ्यमिदं त्रयम् ॥ ५६ ॥ चित्तं वित्तं च पात्रं च त्रयमेकत्र संगतम् । दुर्लभ लभ्यते येन जन्म तस्य फलेग्रहि ।। ५७ ।। लक्ष्मीः सौभाग्यमारोग्यमाज्ञैश्चर्यं गुणोन्नतिः । आदेयता च कौन्तेय दानकल्पद्रुपल्लवाः ॥ ५८ ॥ देशतः सर्वतो वापि विरतिः शीलमुच्यते । यतः संसारपारीणाः स्त्रियोऽप्यासन्ननेकशः ॥ ५९ ॥ दानमातन्यते पापपीवरैरपि पामरैः । न तु पालयितुं शीलं शक्यते येन केनचित् ॥ ६० ।। बाह्यमुक्तं तपः षोढा पोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ ६१ ।। इहापि स्यान्महीयस्यै तपोऽभीष्टार्थसिद्धये । स्वयमेव त्वया दृष्टो दृष्टान्तोऽत्र जयद्रथः ।। ६२ ।। द्रौपदीहरणे ह्येष तदा प्राध्य पराभवम् । दुष्टः कष्टं तपस्तेपे युष्मद्वधविधित्सया ॥ ६३ ॥ तुष्टाव तपसा तेन काचिदभ्येत्य देवता। वरं वत्स वृणीष्वेति निजगाद जयद्रथम् ॥ ६४ ॥ सोऽथ मे दुस्तपस्यास्य यद्यस्ति तपसः फलम् । ततो बन्धाय पाण्डूनां स्यामित्येतामयाचत ।। ६५ ।।