पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६२९ भोगान्न च न च त्यागान्न चाधेर्न च रोगतः । प्रजासंतापशापात्तु क्षीयन्ते क्षितिपश्रियः ॥ १० ॥ क्ष्माभुजां क्षिप्यते लक्ष्मीर्धूतैर्मधुरवादिभिः । अतिप्रवर्धितैर्भृत्यैर्वल्लभैश्च निरङ्कुशैः ॥ ११ ॥ समग्रविषयग्रामसर्वस्वखादलालसैः। इन्द्रियैरिव कायस्यैः कायस्थैः क्षपिता नृपाः ॥ ४२ ॥ चण्डदण्डमगोप्तारं क्षितिपं नेच्छति क्षितिः । निष्कलं कलहक्रूरं लुब्धं पतिमिवाङ्गनाः ॥ १३ ॥ प्रागित्युपादिशः सम्यग्यथा मे हृदयंगमम् । अधुनापि प्रभो पथ्यं तथोपदिश किंचन ॥ ४ ॥ इति विज्ञापनां राज्ञो निशम्य मुनिपुंगवः । दृशौ व्यापारयस्तसिन्सानन्दे मन्दमभ्यधात् ॥ १५ ॥ पुरा राज्योचितं तेऽर्थे पुरुषार्थमचीकथम् । पुष्टोऽर्थः पार्थिवानां हि सर्वोपक्रमसिद्धये ॥ १६ ॥ ऋषीणां त्विदमाख्यातुं राजन्नञ्चति नौचितीम् । ततो धर्मं च मोक्षं च समाचक्षे तवाधुना ॥ ४७ ।। दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । चतुर्णामपि वर्णानां जायते यः शिंवकरः ॥ १८ ॥ स्वर्गापवर्गयोर्वीजं तत्र दानं भवेत्रिधा । गृहस्थैरपि मार्गस्थैर्भवाब्धिर्येन तीर्यते ।। ४९ ॥ प्राणिनां प्रीणनं मृत्योर्मीतानामभयेन यत् । कर्मनिर्मूलनं सर्वज्येष्ठं दानं तदादिमम् ॥ ५०॥ जन्तु धिनोति नोदात्तैर्दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्यमिति वर्णावलिर्यथा ॥ ५१ ॥ आगमादिसमीचीनग्रन्थतत्त्वार्थसिद्धिपु । कुर्वतां साधुसाहाय्यं ज्ञानदानमुदाहृतम् ॥ ५२॥