पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२८ काव्यमाला। इन्दुकुन्दद्युतिं कीर्ति धर्मं च द्वयमप्यदः । दुःखाकृत्योदयन्ते याः संपदस्ता न संपदः ॥ २७ ॥ अहह ज्येष्ठयोः पित्रोर्गान्धारीधृतराष्ट्रयोः । अदायि यन्मया दुःखं तत्तु वाचामगोचरम् ॥ २८ ॥ तत्पथप्रस्थितस्तातः सांप्रत पारलौकिके । प्रसीदान्त्योपदेशेन केनाप्यथ गृहाण माम् ॥ २९ ॥ येनामि नरककोडवासप्रतिभुवोऽधुना। मुच्येयं बान्धवध्वंसनिदानात्खलु पाप्मनः ॥ ३० !! पुराप्यदाथि यो मह्यं राजधर्मोचितस्त्वया । उपदेशः स हृद्यस्ति वास्तव्योऽद्यापि तद्यथा ॥ ३१ ॥ सर्वैर्नृपगुणैर्युक्ताः सुवृत्ताः प्राज्यवंशजाः । भूमेर्भूषणतां यान्ति हारा इव नरेश्वराः ॥ ३२ ॥ पार्थिवानामलंकारः प्रजानामेव पालनम् । किरीटकटकोष्णीषैर्भूष्यन्ते केवलं नटाः ॥ ३३ ॥ विशेषज्ञः कृतज्ञश्च गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ ३४ ॥ सेवागुरौ तदादिष्टे ग्रहः पुरुषसंग्रहः । शौर्यं धर्मश्च पञ्चामी राज्यलक्ष्मीलताम्बुदाः ॥ ३५ ॥ आपन्नस्यार्तिहरणं शरणागतरक्षणम् । तथ्यं प्रजानुरागश्च श्रीतरीनां गरा अमी॥ ३६ ॥ दानेन क्षमया शत्त्या गणं राजानुपालयेत् । गणकोपः क्षयो राज्ञां विजयो गणसंग्रहः ।। ३७ ॥ शपन्ते कृपणाक्रन्दच्छद्मना क्षितिपं श्रियः । आददीत ततो लोकपीडयार्थं न पार्थिवः ॥ ३८ ॥ आशां न विफलां कुर्यान्नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशसमं नास्ति हृदयाकर्षणं नृणाम् ॥ ३९ ॥