पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६२७ पितामहं तथा प्रेक्ष्य पाण्डवानां दृशस्तदा । आसन्नानन्दशोकाभ्यां शीतलोप्णजलाविलाः ॥ ११ ॥ किरीटं पादुके छत्रं कृपाणं चमराणि च । दूरादुर्वीपतिर्मुञ्चन्पञ्चधाभिगमं व्यधात् ॥१५॥ अष्टमीन्दुनिभे कुर्वललाटे करकुदालम् । ययौ नैपेधिकीपूर्वमुशिलदवग्रहम् ॥ १६ ॥ तत्र कृत्वोत्तरासङ्गं निःसझेकशिरोमणेः । स त्रिः प्रदक्षिणीकृत्य पादयोरपतन्मुनेः ॥ १७ ॥ प्रत्येकं तस्य वात्सल्यं सरन्तरतत्तदद्भुतम् । नप्तारोऽन्येऽपि चत्वारश्चरणी मूर्द्धनि न्यधुः ॥ १८ ॥ तेऽजस्रमश्रुधाराभिः क्रमावतपयन्मुनेः । भेजिरे विरजीभावं भक्तिप्रहाः स्वयं पुनः॥ १९ ॥ धर्मलाभमयीस्तेपामागिपोऽदान्मुनिः शनैः । तेऽप्युपेत्य प्रमोदेन न्यपीदतन्मुखाग्रतः ।।२०।। मुनिराकृष्य नासाग्रात्तेपु चिक्षेप चक्षुपी। महान्तो हि परार्थाय स्वार्थेषु शिथिलादराः ॥ २१ ॥ आजन्मचापसंपर्ककर्कशं मुनिपुंगवः । पाणिं व्यापारयामास तेषां पृष्ठे पुनः पुनः ॥ २२ ॥ सुधासब्रह्मचारिण्या गाङ्गायनिमुनेदृशा । सिक्तस्त्यक्तमनस्तापः पार्थिवरतं व्यजिज्ञपत् ।। २३ ।। प्रभो प्रभूतसंभूतपापपझेन पङ्किलः । निर्मलोऽस्तु ममात्मायं त्वदुपास्तिसुधाम्बुधौ ॥२४॥ विवेकाख्यं निधिं तात तृष्णामुष्णान्ममाखिलम् । राज्याय वान्धवध्वंसमकाएं कथमन्यथा ॥ २५ ॥ ज्ञातिसंज्ञपनोपज्ञकल्मपैकमलीमसाः । व्याकोशकोशहस्त्यश्ववन्धुरा अपि धिक् श्रियः ॥ २६ ॥