पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२६ काव्यमाला। पञ्चदशः सर्गः । दीक्षाप्रपन्नमन्येद्युरुद्यद्भक्ति पितामहम् । नन्तुं यियासुरादिक्षत्स पौरान्बान्धवान्नृपः ॥१॥ ते तदैव समारूढाः प्रौढेपु तुरगादिषु । कृप्ताकल्पा नृपद्वारमभ्युपेत्यावतस्थिरे ॥२॥ अगण्यदेवमण्यादिवरेण्यावर्तवाजिनम् । वाजिनं पञ्चकल्याणमारुरोह महीपतिः ॥ ३ ॥ मुनिर्यत्रास्ति गाङ्गेयः प्रतस्थे तत्र पार्थिवः । ऋक्षेशमिव ऋक्षाणां गणो लोकस्तमन्वगात् ॥ ४ ॥ मुनिवन्दारुगीर्वाणविमानैः स्थगिते रवौ। राजन्यानां पथि व्यथैर्जातमातपवारणैः ॥ ५ ॥ सपौरस्तं भुवो भर्ता देशमादेशवान्क्रमात् । भीष्मालंकृतशैलान्ते खसैन्यं संन्यवेशयत् ॥ ६ ॥ ततश्चरणचारेण गच्छन्नरपतिः पुरः । शयानं शरशय्यायामात्मध्यानपरायणम् ॥ ७ ॥ गीतार्थे मुनिभिर्लानपरिचर्याविचक्षणैः । संवाह्यमानं सर्वाङ्गं करैः कमलकोमलैः ॥ ८॥ आचार्यभद्रगुप्तेन दीयमानानुशासनम् । दहतो देहिनो भेदनिश्चयैकाग्रचेतसम् ॥ ९॥ देहदक्षिणभागस्थं भवभडैकमुद्गरम् । धारयन्तं मनोहारि रजोहरणमन्तिके ॥ १० ॥ अहंपूर्विकयोपेतैरमरैरथ खेचरैः । बद्धमानाधिकश्रद्धराबद्धपरिमण्डलम् ॥ ११ ॥ नराणां खेचराणां च स्त्रीभिः स्वर्वासिनामपि । प्रारब्धरासकोत्तालतालवाचालसंनिधिम् ॥ १२ ॥ आनन्दमनं नासाग्रन्यस्तनिश्चललोचनम् । गाङ्गेयमुनिमद्राक्षीचारित्रमिव मूर्तिमत् ॥ १३ ॥ (सप्तभिः कुलकम् ।