पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६२५ इति विज्ञेन विज्ञाप्य विष्णवे पाण्डुजन्मना । वर्णरत्नगजाश्वादिसर्वस्वमुपदीकृतम् ॥ ३२१ ।। त्वयेदानीं ममैवेदं सर्वं वस्तु समर्पितम् । निर्बन्धं तदलंकृत्वा विजयथाश्चिरं भुवि ॥ ३२२॥ इति संबोध्य कौन्तेयं तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठावती द्वारवतीं प्रति ।। ३२३ ॥ (युग्मम्) धर्मजस्तमनुव्रज्य पुरं कृच्छ्रान्यवर्तत । पृथासूनुकथानिष्णः कृष्णोऽपि वपुरी ययौ ॥ ३२४ ॥ समभ्यर्च्य यथौचित्यं तेऽपि चित्राङ्गदादयः । प्रीतैः पाण्डुसुतैः सर्वे विसृज्यन्ते स खेचराः ॥ ३२५॥ कौन्तेयोऽथ पुरे सर्वव्यसनानि न्यवारयत् । एकस्याप्यपराधे हि ज्ञातिरुच्छिद्यते ध्रुवम् ॥ ३२६ ॥ अमारि पटहैश्चापि धर्ममुन्निद्रमादधे । कृपा हि सर्वजीवेषु पर धर्मस्य जीवितम् ॥ ३२७॥ स भोजनाय दीनानामनादीनवमानसः । नानाभोज्यविचित्राणि सत्रागाराण्यकारयत् ।। ३२८॥ यात्रां स सूत्रयामास समस्तजिनवेश्मसु । सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥ ३२९ ।। तत्रस्थ एव नाशिक्ये स श्रीचन्द्रप्रभप्रभोः। अचीकरत्सदाचारपूतः पूजामहोत्सवम् ॥ ३३० ॥ इति सुचरितस्तैः स्तैः सिक्त्वा सुधा इव बान्धवैः परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । स च निरुपमानन्दस्यन्दि क्षणात्सुषुवेतमा- मखिलनृपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ।। ३३१ ॥ - मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जरासंधवध- वर्णनो नाम चतुर्दशः सर्गः ॥ १४ ॥