पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२४ काव्यमाला। महीपालकिरीटोऽसौ किरीटं कैटभारिणा । पारावारार्पितै रत्नैः पर्युप्तं पर्यधाप्यत ।। ३०८ ।। अजातारेस्ततो जाते क्षितिपानामुपायने । अतिप्रीतिपराः पौरा मङ्गलानि वितेनिरे ॥ ३०९ ॥ उपेत्योपेत्य वृन्देन पौरपण्याङ्गनागणः । संगीतं सूत्रयामास तू(तौर्यत्रिकविचक्षणः ॥ ३१०॥ जाते खामिन्यजातारौ प्रजाः पूर्णोपयाचिताः। पुरमुज्जागरं चक्रुर्देवेभ्यस्तूर्यजागरैः ।। ३११ ।। वीक्ष्य धर्मात्मजो गाढं नागराननुरागिणः। अश्लाघत पृथा तादृक्पुत्रप्रसविनीं हरिः ॥ ३१२ ॥ व्यधत्त धर्मसूनित्यं कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशीं भक्तिं गान्धारीधृतराष्ट्रयोः ॥ ३१३ ॥ पञ्चमूर्तिकमात्मानं स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्ष बन्धून्सर्वाधिकारिणः ॥ ३१४ ॥ आपृच्छयमानमन्येधुर्गमनाय जनार्दनम् । सभायामञ्जलि बद्धा धर्मजन्मा व्यजिज्ञपत् ॥ ३१५ ॥ दामोदर तवैवेदमनुभावविजृम्भितम् । भूयोऽभवन्यदेता मे हस्तिनापुरसंपदः ॥ ३१६ ॥ स्मरस्येतद्विराटेपु गूढवासकदर्थितान् । आदराद्वारकां नीत्वा तथास्मान्सत्करिष्यसि ।। ३१७ ॥ किं चास्मिंश्चण्डशौण्डीरे कि जयेयं रणाजिरे । सुमेधाः सहयुद्धा चेन्न त्वमेकमना भवेः ॥ ३१८ ॥ राज्यलक्ष्मीस्तवैवेयमिमे प्राणास्तथैव च । किमन्यदस्ति येन त्वां विष्णो सत्कुर्महे वयम् ॥ ३१९ ।' तथापि पृथुचित्तेन निनिमित्तोपकारिणा । पदातिलबसंख्यायामयं चिन्त्यो जनस्त्वया ।। ३२० ॥