पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२२ काव्यमाला। प्रत्युद्ययौ तदाकर्ण्य सपौरः पाण्डुरात्मजान् । तेषामालोक्य च स्फीति पुपोष पुलकोत्करम् ॥ २८२ ॥ उपेयुषी समं पत्या सुतानुद्वीक्ष्य तत्क्षणात् । माद्री हर्षाश्रुवर्षेण प्रावृष नूतना व्यधात् ।। २८३ ॥ विहाय वाहनान्याशु विकासिवदनाम्बुजाः । व्यक्तानन्दमवन्दन्त पितरौ पाण्डवा अपि ॥ २८४ ॥ उन्निद्रप्रणया माद्री गाढाश्लेषपुरःसरम् । पद्मोत्फुल्लदृशः कुन्त्याः पाणिभ्यामग्रहीत्क्रमौ ॥ २८५ ॥ सरोमाचा च पाञ्चाली पञ्चाङ्गीचुम्बितावनिः । क्रमात्पाण्डोश्च मायाश्च प्रणेमे चरणाम्बुजम् ।। २८६ ॥ अन्यैरपि यथौचित्यप्रणीते प्रणतिक्रमे । पीयूषमयमानन्दमयं तेषामभूज्जगत् ॥ २८७ ॥ आमुक्तमौक्तिकोचूलाः स्वर्विमानजितस्ततः । जगत्या इव रोमाञ्चा मञ्चा निर्ममिरे पुरे ॥ २८८ ॥ प्रतिवेश्म व्यरच्यन्त चेलोत्क्षेपपुरःसरम् । साक्षादिव मुदो मुक्ताः खस्तिकास्तोरणानि च ॥ २८९ ॥ प्रतिरथ्यमदीयन्त पिष्टातकपरागिणः । मूर्ता इव मनोरङ्गा विकटाः कुङ्कुमच्छटाः ॥ २९० ॥ असून्यत भ्रमभृङ्गीसंगीतसुभगोदयः । कुसुमप्रकरो जानुदनो घण्टापथक्षितौ ॥ २९१ ॥ संबन्धोरप्यजातारेः प्रवेशाय प्रसाधनम् ।। पाण्डुः प्रमोदनीरन्ध्रः सैरंध्रीमिरकारयत् ॥ २९२ ।। यशःसंभारसौरभ्यसुरभेधर्मजन्मनः । चन्दनाद्यङ्गरागोऽङ्गे पुपोष पुनरुक्तताम् ॥ २९३ ॥ सदैवापरदुष्प्रापगुणालंकारधारिणः । तस्याभूवन्नलंकाराः पित्रोर्नेत्रोत्सवः परम् ।। २९४ ।।