पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६२१ अनाधृष्टिमुखाश्चान्ये कुमाराः स्वजना अपि । राजानोऽपि सहायातास्ते सहस्राणि षोडश ॥२६९ ॥ अर्धभारतवास्तव्यास्त्रिविष्टपसदस्तथा । । सर्वे व्योमचरास्ते च वसुदेववशंवदाः ॥ २७०॥ हिरण्मयै रत्नमयैस्तथाम्भःपूरितोदरैः । कलशैर्मुखविन्यस्तोदारमन्दारपल्लवैः ॥ २७१ ॥ आनन्दाश्रुसमारब्धवारिधाराद्विरुक्तयः । वैकुण्ठमुच्चपीठस्थमभ्यषिञ्चन्नमी क्रमात् ॥ २७२ ॥ (पञ्चभिः कुलकम्) मातरोऽस्य शिवादेवी रोहिणीदेवकीमुखाः । सुवासिन्यश्च कुन्त्याद्या मङ्गलानि मुहुर्जगुः ॥ २७३ ॥ हयाः कैश्चिद्गजाः कैश्चित्कैश्चिन्माणिक्यराशयः । कन्याः कैश्चित्तदा भूपैरुपदीचक्रिरे हरेः ॥ २७४ ॥ कृतप्रतिपुरं तस्मिन्नभिषेकमहोत्सवे । सत्कृत्य व्यसृजद्विष्णुनृपान्भूचरखेचरान् ॥ २७५ ।। युधिष्ठिरप्रतिष्ठार्थ नृपैः कतिपयैर्वृतः । अन्येयुः सोऽचलत्साश्वहस्तिको हस्तिनापुरम् ॥ २७६ ।। रामो नेमिरनाधृष्टिः पाण्डवेयानुरोधतः । प्रद्युम्नाद्याः कुमारश्च सह तेन प्रतस्थिरे ॥ २७७ ॥ मैत्री मञ्जरयद्भिश्च मित्रश्चित्राङ्गदादिभिः । चेले व्योमचरैः कैश्चित्तदा सार्क किरीटिना ॥ २७८॥ कुन्त्या सह शिवादेवी रोहिणी देवकी तथा । सौजन्यमनुरुन्धत्यश्चेलुः सनेहचेतसः ॥ २७९ ॥ यास्यामः कथमानृण्यं विष्णोर्वयमहो इति । संकथाः पाण्डवेयानां पथि पप्रथिरे मिथः ॥ २८० ।। प्रागेत्य केशवादेशात्पुत्रोत्कण्ठाक्रशीयसः । पाण्डवागमनं पाण्डोरावेद्यत नभश्चरैः ।। २८१ ।।