पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२० काव्यमाला + निवापं सहदेवोऽपि व्यधत्त विधिवत्पुनः । अन्येऽपि प्रेतकार्याणि स्वस्वसंबन्धिनां व्यधुः ॥ २५६ ॥ सापि जीवयशाः साक्षाद्वीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगपन्निर्लज्जादाज्जलाञ्जलिम् ॥ २५७ ॥ कूर्दित्वा यादवैस्तत्र खानन्दो यत्प्रदर्शितः। कृष्णोपज्ञं ततोऽन्वर्थमानन्दपुरमित्यभूत् ॥ २५८ ॥ भारतस्य हरिस्त्रीणि खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥ २५९।। कांश्चिदुत्थापयन्कांश्चिदुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी साधयामास माधवः ॥ २६० ॥ हरिः प्राप प्रदेशं तं वसुधासाधनकमात् । शिला कोटिशिलानाम यत्रास्ति गिरिसोदरा ।। २६१॥ उच्चत्वविस्तरायामैर्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य बलं बाह्रोः परीक्ष्यते ॥ २६२ ।। (युग्मम् पश्यतां सर्वभूपानां भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेपमुच्चिक्षेप क्षणेन ताम् ॥ २६३ ॥ ततो जयजयध्वानपूर्व गीर्वाणखेचराः। प्रहृष्टाः सुमनोवृष्टिं कृष्णोपरि विचिक्षिपुः ॥ २६४ ॥ अखण्डितोदयं षडिर्मासैरासूच्य दिग्जयम् । अखिलैः सह भूपालैवलति स्म बलानुजः ॥ २६५॥ अथ क्रमेण वर्धिष्णुभरतधिमहर्षिभिः । सोऽविशद्वारकां द्वारद्वारप्रारब्धमङ्गलाम् ॥ २६६ ॥ ततो राज्याभिषेकाय विष्णोरुष्णांशुतेजसः । तीर्थानां मागधादीनां जलान्यानिन्यिरे सुरैः ॥ २६७ ॥ समुद्रविजयो राजा स्वयमानकदुन्दुभिः । बलभद्रस्तपासूनुभीमसेनार्जुनौ यमौ ॥ २६८ ॥