पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

< पाण्डवचरितम् । अमन्यत गरीयोभिर्लघीयोभिश्च यादवैः । प्रभुत्वोत्कर्षविश्रान्तिबलकेशवनेमिषु ॥ २४३ ॥ यथास्वं मातरस्तेषां मङ्गलानि वितेनिरे । द्विषज्जयोऽवदानं हि क्षत्रियाणामनुत्तरम् ।। २४४ ॥ ययौ नेमिमनुज्ञाप्य मुदितो मातलिर्दिवम् । आख्यच्च तच्चरित्राणि शक्राय पुलकं वहन् ॥ २४५ ॥ आस्थानीमास्थितेऽन्येयुः समुद्रविजये नृपे । उच्चैस्तूर्यरवं सर्वे शुश्रुवुर्दिवि यादवाः ॥ २४६ ।। परोलक्षाणि चाद्राक्षुरुत्पक्षमाणः क्षणेन ते । स्थगितार्कविमानानि विमानानि नभोऽङ्गणे ॥ २४७॥ समं प्रद्युम्नसाम्बाभ्यामथोत्तीय विमानतः । वसुदेवः प्रणौति स समुद्रविजयक्रमौ ॥ २४८ ॥ बलदेवादयः सर्वे वसुदेवमनंसिषुः । वृद्धान्प्रद्युम्नसाम्बौच ववन्दाते यथाक्रमम् ।। २४९ ॥ यथास्थानं यथानाम प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् ।। २५० ॥ व्यजिज्ञपंश्च ते पित्रा शौर्यरूपादिभिर्गुणैः । जिग्ये जगत्रयं येन पुरस्तात्तस्य के वयम् ॥ २५१ ॥ तवाज्ञा स्रग्विणो मूर्ध्नि विद्धि नस्तदतः परम् । नवमो(8)हि हृषीकेशस्तन्नः शाधि यदृच्छया ॥ २५२॥ इत्युदित्वा नवादित्यप्रभं ते कैटभविषम् । अपास्तकौस्तुभमदै रत्नपुञ्जैरपूजयन् ॥ २५३ ॥ सोऽपि संमानयांचके वचसा क्रिययापि तान् । उदात्तचेतसां क्वापि न यौचित्यव्यतिक्रमः ॥ २५४ ॥ संपरायप्रमीतानां स्ववीराणां नरायणः । क्रियामिज्ञः क्रियास्तास्ता विदधावौर्ध्वदेहिकीः ॥ २५५ ॥ ।