पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६१८ काव्यमाला। किंतु श्रीभ्रमरीकुन्दान्मुकुन्दात्त्रातुमर्हसि । अन्यथा कुपिते तस्मिन्नस्माकं क्व नु जीवितम् ।। २३०॥ तथेत्येषां प्रतिश्रुत्य प्रार्थनां पृथिवीभुजाम् । उपतस्थे समेतस्तैर्नेमिः कंसनिषूदनम् ।। २३१ ।। संमुखं प्रसरन्तीव श्लिष्यन्तीव मुहुस्तदा । संभाष्यन्त इवान्योन्यमेतयोमिलिता दृशः ।। २३२ ।। स्थातां राकामृगाङ्कौ चेत्संमुखीनावुभौ दिवि । तदा तदास्ययोनूनमुपमासंभवो भवेत् ॥ २३३ ॥ उभौ तापिच्छगुच्छाभौ श्रीवत्साङ्कावुभावपि । तावन्योन्यं कृताश्लेषौ सत्यमेकत्वमापतुः ॥ २३४ ॥ प्रावर्तत ततः स्वैरमवार्यभुजवीर्ययोः । संग्रामसंकथास्तास्तास्तयोः शात्रवजैत्रयोः ॥ २३५ ।। आसाद्यावसरं तेषां लक्षस्यापि क्षमाभृताम् । नेमिः प्रसाद्य गोविन्दं पृष्ठे हस्तमदापयत् ॥ २३६ ॥ अत्रान्तरे महामात्या जरासन्धतनूद्भवम् । सहदेवं नये निष्णाः कृष्णस्याङ्के निचिक्षिपुः ।। २३७ ॥ माधवस्तं विधत्ते स्म मगधेषु पुनर्नुपम् । प्रणिपाताबसानो हि कोपो विपुलचेतसाम् ॥ २३८ ॥ तेन तेनोग्रसंग्रामकर्मणा दक्षिणेमणाम् । सुभटानामनाधृष्टिश्चक्रे व्रणचिकित्सितम् ॥ २३९ ॥ संपराये परासूनां समुद्रविजयाज्ञया । स करोति स्म संस्कारमामेयास्त्रेण कालवित् ।। २४० ।। विसृज्य सहदेवाद्यान्पार्थिवानथ केशवः । कुलवृद्धाभिरारब्धशिवं शिबिरमभ्यगात् ॥ २४१ ।। समुद्रविजयः पुत्रैः पौत्रैश्च परिवारितः । अनुयातः पथि प्राप कामप्यनुपमां श्रियम् ।। २४२।।