पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६१७ शिर्षच्छेद्यस्य तस्याशु शिरश्चिच्छेद केशवः । प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥ २१७ ॥ तेन ज्वालाजटालेन सकिरीटं सकुण्डलम् । एत्य प्रसभमम्भोजच्छेदं चिच्छेद तच्छिरः ॥ २१८ ॥ निर्व्यूंढस्वामिकार्यत्वादाढ्यंभावुकतेजसा । चक्रेण तेनालंचक्रे पुनरेव हरेः करः ॥ २१९ ।। जगच्चेतश्चमत्कारिकंसारिबलदृश्वनाम् । आनन्दनिर्यदश्रूणां प्रसस्नुः खर्गिणां गिरः ।। २२० ॥ नवमो नवमस्फूर्तिर्विस्फुरत्कीर्तिसौरभः । स एष द्विषदुच्छेदच्छेकोऽजनि जनार्दनः ॥ २२१ ॥ कंसध्वंसः पुरीन्यासो जरासंधवधोऽप्ययम् । जन्मतोऽपि किमेतस्य चरित्रं यन्न चित्रकृत् ।। २२२ ।। इत्यन्योन्यकृतालापास्त्रिविष्टपसदस्तदा । गोविन्दे निजमानन्दं विवत्रुः पुष्पवर्षतः ॥ २२३ ।। भूर्भुवःस्वस्त्रयीलोके शंसद्भिः केशवोदयम् । ते मुदा दुन्दुभिध्वानैः शब्दाद्वैतं वितेनिरे ।। २२४ ।। अथ लक्षमपि क्षोणेरधिपाश्चावरोधतः । अरिष्टनेमिना मुक्ताः सिंहेन हरिणा इव ॥ २२५॥ ते तदोत्सादितोत्साहमुच्छन्नास्त्रपरिग्रहम् । आत्मानं वीक्ष्य दधिरे त्रपामलिनमानसम् ॥ २२६ ।। जरासन्धवधं ज्ञात्वा नृपाः प्राजलयस्तदा । विज्ञा विज्ञापयामासुः समुद्रविजयात्मजम् ।। २२७ ।। बैकुण्ठे कुण्ठशौण्डीर्या मा भूवन् रिपवः कथम् । विपक्षकक्षदावाग्मिर्यस्य त्वमसि बान्धवः ॥ २२८ ।। राजन्यमृत्यौ जन्येऽस्मिन्न जीविष्याम किं वयम् । कृपया त्रिजगत्रातरेवमत्रास्यथा न चेत् ॥ २२९ ।।