पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। जरासन्धपताकिन्यां किंचित्सानन्दचेतसि । अहो किमद्य भावीति सोत्प्रेक्षे प्रेक्षके जने ॥ २० ॥ समुद्रविजयादीनां दीनान्तःकरणस्पृशाम् । पश्यतामेव तुम्बेन जवादाहत्य वक्षसि ॥ २०५॥ उपसर्गेऽपि तादृक्षे निःशोभमनसो हरेः । अन्तेवासी च पादान्तं तच्चक्रं समशिश्रियत् ॥ २०६॥ (त्रिमिर्विशेष सानन्दे यादवानीके प्रत्यनीके विषादिनि । हेलयैव हरिः किंचिन्नीचैर्भूय तदाददे ॥२०७ ।। दम्भोलिनेव जम्मारिः प्रभामण्डलशालिना । पाणिप्रणयिना तेन केशवः शुशुभेतमाम् ॥ २०८॥ अम्भोजमिव तचक्रमुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी मगधाधिपमभ्यधात् ॥ २०९॥ भो भूपालशिरोरत्न न यत्नः संयुगाय ते । सांप्रतं साप्रतं येन दैवं नैवानुकूलिकम् ॥ २१० ।। आत्मीयमप्यनात्मीयं शस्त्रं स्यात्कथमन्यथा। तद्गच्छ मागधान्खेच्छं विलसस्व(त्वं) ममाज्ञया ॥ २११ ॥ नष्ट न किंचिदद्यापि मेदिनीश विमृश्यताम् । श्रुतं किं न त्वया जीवन्नरो भद्राणि पश्यति ॥ २१२ ॥ इत्युक्तः सोऽपि साटोपं कैटभारिमभाषत । अरे गोपाल वाचाल सुतरामसि संप्रति ॥ २१३ ॥ संप्राप्तनामुना मन्ये लोहखण्डेन माद्यसि । अमेयः सारमेयस्य गर्वोऽस्थिशकलादपि ॥ २१४ ॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास व्योमेवाब्देस्तपात्यये ।। २१५ ॥ स्वचक्रेणैव नेतव्याः प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि नान्यथेति विचिन्तयन् ॥ २१६ ॥