पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६१५ केतुच्छेदशरच्छेदजीवच्छेदैर्विलक्ष्यताम् । नीतः पीतद्विषच्चक्र चक्रं सरसार मागधः ॥ १९१ ।। देवताधिष्ठितं तस्य क्रोधारुणदृशस्तदा । कराम्भोजमलंचक्रे तदप्यागत्य वेगतः ॥ १९२ ॥ रे गोप न भवस्येष इति जल्पन्मुहुर्मुहुः । चक्रं चिक्षेप साक्षेपमसोढुं मगधाधिपः ।। १९३ ॥ तच्च स्वच्छन्दमागच्छत्समुद्रविजयादिभिः । यादवैर्ददृशे व्योम्नि हाहारवपुरःसरम् ॥ १९४॥ इतस्ततः परिप्रेमुः संभ्रमेण नभश्चराः । स्वर्गौकसोऽपि तन्मार्गाद्विमानान्यपनिन्यिरे ॥ १९५॥ तदस्त्रैस्ताडयामास चक्रमर्धपथे हरिः। मुहुर्मुसलसीराभ्यां सीरपाणिश्च निश्चलः ॥ १९६ ।। रुष्टोऽत्यन्तमनाधृष्टिः परिषेण जघान तम् । शः समस्तैर्निस्तन्द्रः समुद्रविजयः पुनः ॥ १९७ ।। शक्तिं च तत्प्रहाणाय प्राहिणोद्धर्मनन्दनः । गदा पुनर्जगजैत्रीमादरेण वृकोदरः ॥ १९८ ॥ रुरोध कौरवजयोर्जखलैरर्जुनः शरैः । कुन्तेनारिकृतान्तेन प्रयत्नान्नकुलः पुनः ॥ १९९ ॥ संरोद्धं सहदेवोऽस्वैस्तच्चक्रमुपचक्रमे । सर्वात्मनापि विक्रान्तं पञ्चभिस्तत्र पाण्डवैः ।। २००॥ अन्येऽपि यादवाः सर्वे विविधैरायुधैर्निजैः । युगपत्तदपाचक्रुश्चक्रमुद्दामविक्रमाः ॥ २०१॥ केनापि(प्यस्खलितं भूरि स्फुलिङ्गोद्गारि तत्तदा। मार्तण्डमण्डलनिभं नभस्यायाति वेगतः ॥ २०२ ।। ततो मनसि मन्वाना जातं विश्वमकेशवम् । यादवाः समजायन्त सबाष्पश्यामलाननाः ॥ २०३ ।। 1