पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६१४ काव्यमाला। तन्निशुम्भनसंभूतप्रभूताक्षेपदुःसहम् । माधवं मगधाधीशः समेत्य सविधेऽभ्यधात् ।। १७८ ॥ रे गोपाल ध्रुवं कालः कृतक्रोधोदयोऽधुना। आकर्षति जरासन्धः कंसमुख्यास्तवोदरात् ॥ १७९ ॥ समादत्स्व किमप्यस्त्रमात्मत्राणैककारणम् । अनायुधमसंनाहं नाहमाहन्मि जातुचित् ।। १८० ॥ दृष्टभर्तृवधा दृष्ट्वा वधं तद्वधकस्य ते । सुता जीवयशा मेस्तु प्रतिज्ञापारदृश्वरी ॥ १८१ ॥ विब्रुवन्तमिति क्रोधाद्विरोधिनमनेकधा । मनागप्यकृतक्षोभस्तं जगाद जनार्दनः ।। १८२ ।। राजन्यदात्थ तत्तथ्यं सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किंतु ज्वलद्वहिप्रवेशनात् ॥ १८३ ॥ इति तं व्याहरन्नेव प्रेरितः शकुनैः शुभैः । हरिः सरभसोऽभ्येत्य प्रतिजग्राह मार्गणैः ॥ १८४ ॥ जरासन्धो धनुर्दण्डादथ प्रसृमरैः शरैः । भयं यदूनां विदधे पिदधे चार्कमण्डलम् ॥ १८५ ॥ चित्रांस्तान्पत्रिणः शनोमूर्तानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्खण्डयामास केशवः ।। १८६ ।। रामरावणसंग्रामदृश्वनां खर्निवासिनाम् । अजायत तयोर्युद्धे ताडगेव रसः पुनः ॥ १८७ ॥ शस्त्रं यद्यजरासन्धो मोक्तुमैक्षदधोक्षजे । मार्गणैस्तत्तदप्राप्तमोक्षं चिच्छेद स क्षणात् ॥ १८८ ।। अपूर्वसंयुगालोककौतुकाकुलमानसैः। खेचरै, रचयांचक्रे कलः कलकलो दिवि ॥ १८९ ॥ मुरारेः प्रतिपक्षास्त्रैरस्त्राणि मगधेशितुः । विधीयन्ते स्म बन्ध्यानि ध्वान्तानीव रवेः करैः ।। १९० ॥ .