पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । किंतु बन्धूपरोधेन नीतोऽस्मि रणधुर्यताम् । किं नामैता न बाधन्ते दुर्धरा मोहवीचयः ॥ १६५ ॥ किं चायं शाश्वतो भावः सदा सर्वत्र निश्चितः । संयुगे यन्निहन्तव्या विष्णुभिः प्रतिविष्णवः ।। १६६ ।। अचिरेणैव सोऽप्यर्थो भविता पश्यतस्तव । इति नेमिर्ब्रूवन्नेवं स्वां संस्थापितवांश्चमूम् ॥ १६७ ॥ ततस्तथेरयांचक्रे शक्रसारथिना रथः । यथा शरिवरूथिन्यां पुरः सर्वैरवैक्ष्यत ॥ १६८॥ अथालोक्य जरासन्धो यवनादिसुतक्षयम् । विकटभ्रूकुटीबन्धः कैटभारातिमभ्यगात् ॥ १६९॥ दृप्तैरेकोनसप्तत्या जरासन्धसुतैरथ । पितुरग्रेसरैर्भूत्वा रुध्यते स जनार्दनः ॥ १७० ॥ शोणदृष्टिपुटैरष्टाविंशत्या तु हलायुधः । संग्रामयितुमारेभे सरभः सिंहकैरिव ॥ १७१ ॥ सावहेलमुदस्तेन हलेन मुसलेन च । अमून्मशकनिष्पेषं निष्पिपेषाप्रजो हरेः ॥ १७२ ॥ तद्वधोच्छलितक्रोधप्रबोधो मगधेश्वरः । निर्दयो गदया रामं ताडयामास वक्षसि ॥ १७३ ।। तत्प्रहारव्यथादौस्थ्यादसृक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि हाहारावं च वाहिनी ॥ १७४ ॥ प्रजिहीर्षुं पुना रामे निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात्स्खलयामास फाल्गुनः ॥ १७५ ॥ अर्जुनस्य शितैर्बाणैर्बाधितो मागधस्तदा । तदेकोपज्ञमज्ञासीत्कौरवारामसंक्षयम् ॥ १७६ ॥ गदाप्रहारबैधुर्यं पश्यत्रामस्य केशवः । सर्वांस्तानन्तयांचक्रे तनूजान्मगधेशितुः ॥ १७७ ॥