पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६१२ काव्यमाला। प्रहारप्रोषितप्राणसुभटस्थपुटक्षिति । नेव्यनिर्यदसृक्कुल्यासिक्तमागधसंमदम् ॥ १५२ ॥ पराजयनितान्तार्तकुशार्तवसुधाधिपम् । मानमर्दनसंपन्नसमरावेशकेशवम् ॥ १५३ ॥ नृत्यत्कबन्धनिध्यानतच्यानत्रिदशाजनम् । अरिष्टनेमिरैक्षिष्ट स्वसैन्यं सान्द्रया दृशा ॥ १५४ ॥ (चतुर्भिः कलापकम्) व्याजहार कुमारं तं प्राञ्जलिर्मातलिस्ततः । पश्य देव त्वमेवासि संयुगेऽस्मिन्न गंजितः ॥ १५५ ॥ इदं निर्मथितं नाथ सैन्यं ते परिपन्थिना । तदेवं देव किं युक्तं निजं पक्षमुपेक्षितुम् ॥ १५६ ॥ भवेद्यद्यपि सावर्च कर्मेद निर्ममस्य ते । रथं तथापि वृत्रारेः किंचिदेनं कृतार्थय ॥ १५७ ॥ इति मातलिविज्ञप्तः कुमारोऽप्यकुतोभयः । आखण्डलकराकल्पमधिज्यं धन्व निर्ममे ॥ १५८ ॥ कृत्तिद्वषदहंकारटंकारस्तस्य धन्वनः । व्यानशे रोदसी कालमहिषध्वनिभीषणः ।। १५९ ॥ शङ्ख चापूरयन्नेमिर्दिक्कुक्षिभरिनिखनम् । यच्छन्मूर्छालतां सोऽभूदैत्यानामपि दुःसहः ।। १६० ।। लक्षं विपक्षक्षितिपा योद्धारस्तत्र येऽभवन् । स्तम्भितास्तेऽभितस्तेन ध्वनिना धन्वशङ्खयोः ॥ १६१ ।। अथाह मातलिनेमि विस्मितः समितस्तदा । लीलयैव त्वया देव जिग्ये वैरिचमूरियम् ॥ १६२ ॥ एनं पुनर्जरासन्धं मदान्धं स्वभुजौजसा । यादवक्षोदनिक्षोभक्षमोऽपि किमुपेक्षसे ।। १६३ ।। ततो विभेद वाड्मुद्रां समुद्रविजयाङ्गजः । असौ राजन्यरोधोऽपि नोचितः सूत मादृशाम् ।। १६४ ॥