पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । सेनाग्रे धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । नवीन इव जीमूतो बलाकाभिरलंकृतः ॥ १३९ ॥ अस्य दक्षिणपक्षस्थोऽरिष्टवर्णैस्तुरङ्गमैः । रामस्तालध्वजः सोऽयं हिमवानिव जङ्गमः ॥१०॥ नीलाश्वेन रथेनैष पाण्डुसूनुयुधिष्ठिरः । धनंजयः पुनरयं रथेन श्वेतबाजिना ॥ १४१॥ नीलोत्पलदलामाश्वरथस्त्वेष वृकोदरः। कृष्णाश्वेन रथेनायमनाधष्टिर्गजध्वजः ॥ १४२ ॥ अयं च शबलैरश्वैरक्रूरः कदलीध्वजः । महानेमिकुमारोऽयं कुमुदाभैस्तुरङ्गमैः ॥ १४३ ॥ उग्रसेनः पुनरयं शुकतुण्डप्रभैहयैः । एष तित्तिरकल्माषैः सात्यकिस्तु तुरङ्गमैः ॥ १४४ ॥ जराकुमार कनकपृष्ठाश्वोऽयं मृगध्वजः । मेरुः कपिलरक्ताश्वः शिशुमारध्वजस्त्वसौ ॥ १४५॥ काम्बोजैर्वाजिभिश्चायं सिंहला लक्ष्णरोमसूः । पद्माभैर्वाजिमिश्चैव राजा पद्मरथः पुरः ॥ १४६ ॥ पञ्चपुण्ड्रैर्हयैरेष कुम्भकेतुर्विदूरथः। पाराप(व)तसमाश्वोऽयं सारण: पुष्करध्वजः ॥ १४७ ।। बहवो यदवोऽन्येपि नानारश्रयध्वजाः । सन्त्येते न तु शक्यन्ते सर्वेऽप्याख्यातुमाख्यया ॥ १४८ ॥ तदाकर्ण्य जरासन्धः प्रवृद्धोत्साहसाहसः। मन्यमानस्तृणायैतानमृगाद्यादवी चमूम् ॥ १४९॥ बभार भारतेर्धेशक्लेशितं यादवं बलम् । मत्तमातङ्गनिर्लननलिनीवनविभ्रमम् ॥ १५० ॥ - हतस्तम्बेरमस्तोममस्तंनीततुरङ्गमम् । भग्नस्यन्दनसंदोहदुरासदपदक्रमम् ।। १५१ ॥