पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तस्य बाणावलीं छित्त्वा विश(स)च्छेदं जनार्दनः । चिच्छेद धनुषो जीवां जीवातुमिव तेजसाम् ।। १२६ ।। उपादाय परं चापमसौ यावदयुध्यत । तावत्कृष्णोऽस्य राज्यश्रीनिकेतं केतुमच्छिदत् ।। १२७ ।। ममन्थ सारथिं रथ्यात्रथं चैतस्य केशवः । बलिना स्पर्धमानस्य न्यकारो हि पदे पदे ॥ १२८ ॥ असिखेटकहस्तेन भूयस्तेनोत्थितं रणे । कंसविध्वंसनोऽप्येनं नन्दकेनाभ्यपद्यत ॥ १२९॥ अभूत्कुतूहलोत्थास्नुदिविषत्परिषत्तयोः । परस्परहढाघातभमप्रहरणो रणः ॥ १३० ॥ हरिं जघान निःशङ्कमानसो दमघोषजः । तं पुनर्जातसंबन्धबद्धापेक्षमधोक्षजः ॥ १३१ ।। तमथारिष्टमथनो निष्पिष्टमुकुटं व्यधात् । आचकाङ्क्ष शिरश्छेत्तुं तस्य चेदिपतेः पुनः ॥ १३२ ॥ शिरच्छेद्योऽयमित्यात्तनिश्चयश्चैद्यमच्युतः। खड्जदूतमुखाच्चके कंसस्य परिचारकम् ।। १३३ ।। शिशुपालवधालोककल्लोलितरुषा ततः । अगस्ती(स्त्या)यितुमारेमे युद्धाब्धौ प्रतिविष्णुना ॥ १३४ ॥ संनद्धः संमुखीभूय भूयः क्षितिपसंकुलाम् । दृष्ट्वा यदुचमूं सोऽथ दूतं पप्रच्छ सोमकम् ।। १३५ ॥ दूत्येन गतवानेतानुर्वीशान्दृष्टपूर्यसि । नामप्राहम तन्मे सर्वानाख्यातुमर्हसि ॥ १३६ ॥ अथाख्यत्सोमकः खामिन्सैन्यनाभो नृपः पुरः । समुद्रविजयः वर्णवर्णाश्वोऽयं हरिध्वजः ।। १३७ ।। अस्य सूनुर्जगन्मान्यो निःसीमभुजविक्रमः । अयं तु शुकवर्णाश्वोऽरिष्टनेमिषध्वजः ॥ १३८ ॥