पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । अद्य स्यादजरासन्धमकृष्णं वा महीतलम् । इत्थं संधानुसंधानग्रहिलीकृतमानसः ॥ ११ ॥ कीनाशावाससंवासप्रतिभूमिः पदे पदे । यमदूतैरिवोल्लुण्ठैर्दुनिमित्तैरुरीकृतः ॥ ११५ ॥ क्व रे कृष्णः क्व रे कृष्ण इत्युच्चैाहरन्मुहुः । उद्धतो मगधस्वामी वेगात्संयुगमाययौ ।। ११६ ॥ (चतुर्भिः कलापकम् ) विरचय्य पुनश्चक्रव्यूहमव्याहतोर्जितः । बभज यादवोद्यानं मदान्धश्चेदिपद्विपः ॥ ११७ ॥ ततो यादवसेनानीर्मद्श्चेदिपतेश्चमूम् । विदधद्धनुराकृष्टिमनाधृष्टिरधावत ॥ ११८ ॥ नृपा दशसहस्राणि ये चेदिपसमीपगाः । रुरोध ताननाधृष्टिः कुञ्जरानिव केसरी ॥ ११९ ॥ तद्वधव्यप्रमालोक्य यदुराजचमूपतिम् । उत्तालः शिशुपालस्तु तत्रागाद्यत्र केशवः ।। १२० ॥ अभ्यधाच्च तमित्युच्चैः कृष्ण निष्णोऽसि संयुगे। तत्किंचिदायुषं धत्व यचे त्राणाय जायते ॥ १२१ ॥ हसन्नुवाच गोविन्दो माद्री माता तवेहशी। दुःसहा अपि सोढामि कामं वाग्विषविषुषः ।। १२२ ॥ अपराधशतेनापि न क्रोधं देवि ते सुते । कर्तास्मीति मया यस्मात्प्रतिपन्नं पितृवसुः ॥ १२३ ॥ पर शतापराधं त्वामिदानीं तु समापयन् । मनागपि भविष्यामि नोपालभ्यः पितृस्वसुः ॥ १२ ॥ इति कृष्णे वदत्येवं निस्त्रपश्चेदिपस्तदा । विततार शरैरेव प्रत्युत्तरमनुत्तरैः ।। १२५ ॥