पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इत्याहूतः स भीमेन मैनाक इव वेगतः । प्राविशत्पक्षरक्षार्थी वेगात्संगरसंगरम् ॥ १०१ ॥ प्रावर्तत तयोः पूर्वं महाबाहोः शराशरि । निष्ठितायुधयोरासीन्मुष्टीमुष्टि ततः परम् ।। १०२ ॥ जरासन्धस्य सेनान्यं भीमस्तामनयद्दशास् । लम्भितौ हरिरामाभ्यां यां प्राकाणूरमौष्टिकौ ॥ १०३ ॥ पुरा दुःशासनेनापि नह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्णनाभो मुष्टीः सहेत ताः ॥ १०४ ।। मागधक्ष्मापतेस्तस्मिन्पतिते पृतनापतौ । अनीककानन दग्धं यादवैस्तद्दवैरिव ॥ १०५ ॥ यादवध्वजिनीशानां खदोर्दर्पस्पृशामपि । पौरुषोत्कर्षसानन्दाः पेतु मे दृशस्तदा ॥ १०६ ॥ किमस्ति कचिदन्योऽपि कोऽपि भीमोपमो भटः । इति चालोकितुं भानुः प्रापवीपान्तरं तदा ॥ १०७ ॥ विहाय समरारम्भमुभयोरप्यनीकयोः । स्वाम्यादेशेन भूपालाः प्रदोषे शिबिरं ययुः ॥ १०८ ॥ एकच्छत्रं मुदामासीत्स्कन्धावारे मुरद्विषः । जरासन्धस्य तु शुचामहो विलसितं विधेः ॥ १०९ ॥ अनाधृष्टिसमाख्यातबाहुपौरुषसंपदः । प्रीतेनाभिसभं राज्ञा समालिङ्गयन्त पाण्डवाः ॥ ११०॥ हते हिरण्यनाभेऽथ प्रनश्यद्धैर्यवैभवः । शुशोच मगधाधीशः सहायाः खल दुर्लभाः ॥ १११ ।। ततः प्रातः पुनः प्राप्तधीरिमा मगधेश्वरः। शिशुपालमहीपालं सेनानीत्वेऽभ्यषिञ्चत ॥ ११२ ॥ स्वयमन्यात्तसंनाहः संयुगोत्साहदुःसहः । उदूढशस्त्रमारूढः स्यन्दनं साम्परायिकम् ॥ ११३ ॥