पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६०७ पाण्डवचरितम् । असह्यस्तावदेकोऽपि रिपुभिः कपिकेतनः । पौरुषोष्मलदोर्दण्डः किं पुनर्बन्धुभिर्युतः ॥ ८८ ॥ गदया ताडयामास भीमः प्रत्यर्थिपार्थिवान् । पक्षोन्निद्रबलानिन्द्रः पविना पर्वतानिव ॥ ८९ ॥ अथोत्थितं (ते) रणव्योमद्युमणौ धर्मनन्दने । परैर्वान्तायितं कैश्चिकैश्चित्तारागणायितम् ॥ ९० ।। जरासन्धस्य राजन्याञ्जन्ये हिंसन्नहीनिव । प्रशस्यदर्शनश्चक्रे नकुल खकुलोचितम् ॥ ११ ॥ दिदेव सहदेवोऽपि संग्रामफलके तदा । रुन्धन् शारानिवारातीन्वश्यैरक्षैरिवेषुभिः ।। ९२ ।। इत्थं पाण्डुसुतैश्चण्डभुजदण्डपराक्रमैः । लम्भिताः शत्रवः केचिदाशु कीनाशदासताम् ॥ ९३ ॥ केचिच्च निशितैर्बाणैर्गमिता दक्षिणेमताम् । अवनीशयनीयेषु शोणितामे॒षु शायिताः ॥ ९४ ॥ शेषास्तु मुषितोत्साहाः प्रापिताः प्राणसंशयम् । हिरण्यनामं शरणं सेनान्यं समुपाययुः ॥ ९५ ॥

  • तानवस्थाप्य दुर्वारशौण्डीर्यः स्थैर्यमन्दरः।

सोऽथ यादवयादांसि ममर्द समराम्बुधौ ।। ९६ ॥ यदुसेनापरिवृद्वैः सोढः प्रौढबलैरपि । न तस्य समरारम्भः सिंहस्येव मताजैः ।। ९७ ॥ केचिन्नेमिजिनाधीशं केऽप्यनाधृष्टिमञ्जसा । हिरण्यनाभतो भीताः शरणाय -रणाद्ययुः ॥ ९८॥ यादवेन्द्रच वीक्ष्य प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य धीरं भीमोऽभ्यधाद्वचः ।। ९९॥ जरासन्धचमूनाथ किं मनासि वृथा बलम् । मामेहि येन दोर्दण्डकण्डूमपनयामि ते ॥ १० ॥