पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विक्रमोपक्रमस्तस्य जिने विफलतां ययौ । खद्योतस्येव मार्तण्डमण्डले द्युतिडम्बरः ॥ ७५ ॥ गुरुः कोदण्डटंकारः सलीलं नेमिनिर्मितः। रुक्मिणः कर्णमभ्येत्य पलायनमुपादिशत् ॥ ७६ ॥ अपरेऽपि परोलक्षाः क्षोणिपाला बलोद्धताः। सममेवोदतिष्ठन्त जिनं योधयितुं मदात् ॥ ७७ ॥ अविधित्सुर्वधं तेषां देवः कारुण्यसागरः । दिव्यमापूरयामास शङ्ख विख्यातविक्रमः ॥ ७८ ॥ तेन शङ्खनिनादेन कर्णजाहोपगृहिना । द्विषां पाणितलात्पेतुरायुधान्यखिलान्यपि ।। ७९ ॥ ते समुच्चितशौण्डीर्यव्यापाराः पुरतः प्रभोः । निनिमेषशस्तस्थुरालेख्यलिखिता इव ।। ८० ॥ हिरण्यनाभमुख्यानां पेष्टुं विद्विष्टभूभुजाम् । अनाधृष्टिरधाविष्ट करिणामिव केसरी ॥ ८१ ॥ तदा युयुधिरे तेऽपि सर्वे सर्वात्मना तथा । भाले रामानुजस्यापि खेदः प्रादुरभूद्यथा ॥ ८२ ।। अश्वीयसंकटे तस्मिन्मिहिरोऽपि महाहवे । शरप्रहारभीत्येव पांशुवर्मावृतोऽभवत् ।। ८३ ।। छिन्नप्रोच्छलितैर्दूर चामीकरमयैर्ध्वजैः । अजायत तदानीं द्यौरुल्काभिरिव संकुला ।। ८४ ॥ रुधिरासवसौहित्यमार्गणाः पार्थमार्गणाः । कृपणे रिपुभिर्नष्टैर्न नीता कृतकृत्यताम् ॥ ८५ ॥ पार्थस्य खुरलीमात्रमभवत्कौरवाहवः । बाह्वोरिष्टमपूरिष्ट जरासन्धरणः पुनः ॥ ८६ ॥ संधानाकृष्टिविच्छेदविषये तस्य लाघवम् । दृष्ट्वा सुमनसो व्योनि सत्यं सुमनसोऽभवन् ।। ८७ ॥