पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६०५ रणत्तूर्यनिनादेन द्विगुणोत्साहसंपदाम् । शूराणां वज्रसंनाहसंधयः शतधा ययुः ॥ ६२ ॥ पाञ्चजन्यो मुकुन्देन देवदत्तः किरीटिना । कीर्तिवैतालिकौ शङ्खौ दध्माते मधुरध्वनी ॥ ६३ ॥ उभयन्यूहवर्तिन्योरन्योन्य स्पर्धमानयोः । संग्रामोग्रपताकिन्योः प्रावर्तत भयंकरः ॥ ६४ ।। सर्वतः परिवीतार्कव्यूहयोरुभयोरपि । शरैः प्रसूमरैर्विश्वमेकच्छन्नमजायत ।। ६५ ।। मगधेश्वरशौण्डीरैर्गोविन्दस्याग्रसैनिकाः । ऊर्जस्विभिरभज्यन्त गजैः प्रतिगजा इव ॥ ६६ ॥ ते पलाय्य स्फुरल्लज्जाः केशवं शरणं ययुः । तान्सोऽप्याश्वासयामास त्रिपताकेन पाणिना ।। ६७॥ अथोच्चै रोहिणीसूनुर्निजगाद गदाग्रजम् । इतरैरेष दुर्भेदश्चक्रव्यूहश्चिरादपि ।। ६८ ॥ ततो दक्षिणतो नेमिर्वामतः कपिकेतनः । मुखे पुनरनाधृष्टिमिन्दन्त्वेनं महौजसः ॥ ६९ ॥ एवमुक्तेन कृष्णेन न्ययुज्यन्त त्रयोऽपि ते । प्रावर्तन्त तथा कर्तुमेतेऽपि तपनद्युतः ॥ ७० ॥ अरसन्धिषु नाभौ च सबै निर्जित्य राजकम् । चक्रव्यूहं द्विधा चक्रुः समं तेऽरिमनोरथैः ।। ७१ ॥ तेषामनुपदं तत्र सैन्यानि विविशुः क्षणात् । पृष्ठतो यूथनाथानां यूथानीव वनान्तरे ॥ ७२ ॥ ऊर्जखलमुजौर्जित्यस्तैर्मागधमहीपतेः । बलं विलोडयांचक्रे गरिव महासरः ।। ७३ ॥ समं नेमिजिनेन्द्रेण गजेन्द्रेणेव कुक्कुरः । कुरङ्ग इव सिंहेन रुक्मी योद्धुमढौकत ॥ ७४ ।।