पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

गोपेभ्यस्तदुपश्रुत्य वनगोष्ठमुपागतः ।
दुर्नयप्रह्वमाह्वास्त कृष्णस्तं दुर्मदं वृषम् ॥ २७५ ॥
सोऽपि शृङ्गे महाभीष्मे रोषादाधाय संमुखे ।
अधावत्कृष्णमाहन्तुं यमसैरिभसंनिभः ।। २७६ ॥
मृणालकन्दलीमोटं मोटयित्वा शिरोधराम् ।
निष्ठुरं मुष्टिना हत्वा सोऽन्तं कृष्णेन लम्भितः ॥ २७७ ॥
यः कृष्णे मुष्णति प्राणांस्तस्याभूद्विधुरो ध्वनिः ।
स एवासीत्तदा नान्दी कंसविध्वंसनाटके ॥ २७८ ॥
कृष्णे जयिनि गोपीनां योऽभूज्जयजयारवः ।
तदथ(त्र) स प्रबन्धस्य प्रथमः पणवोऽभवत् ॥ २७९ ॥
तदैवाथ जनोन्माथप्रवृत्तं वीक्ष्य केशिनम् ।
कृष्णस्तमक्षरै रूक्षैः साक्षेपमिदमभ्यधात् ।। २८० ॥
दुर्विनीतं विनेतारं किं रे मां न निरीक्षसे ।
अनाथमिव मथ्नासि यदेवं मम गोकुलम् ॥ २८१ ।।
इत्याक्षिप्तः स कृष्णेन खुरैः कुद्दालयन्महीम् ।
दशनैर्दशनान्पिंषन्नाभिमुख्यमुपागमत् ॥ २८२ ॥
प्रक्षिप्य कूर्परं तस्य यमदण्डोपमं मुखे ।
कृप्ता(त्ता)स्तजीर्णपटवत्पाटयामास लीलया ॥ २८३ ॥
अञ्चलोत्तारणैर्वृद्धास्तरुण्यस्त्ववगृहनैः ।
तस्य प्रचक्रिरे घोषयोषितः पारितोषिकम् ।। २८४ ॥
नन्दनन्दनचापल्यकर्तृकोऽरिष्टकेशिनोः ।
वधः शशंसे कंसाय घोषान्तश्चारिभिश्चरैः ॥ २८५ ॥
तं निशम्य मुनेर्वाचं सत्यां निश्चित्य सोऽन्यदा।
आहूयामिदधेऽमात्यं मृत्युभीतो बृहस्पतिम् ॥ २८६ ॥
अस्त्यमात्य ममारातिः सानन्दं नन्दगोकुले ।
ततस्तद्ग्रहणोपायं निरपायं विचिन्तय ।। २८७ ॥