पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६०३ पाण्डवचरितम् । अथानीतद्विषद्दैन्यात्सैन्यान्मगधभूपतेः । एत्याप्तचेतसश्चाराः शशंसुः कसविद्विषम् ।। ३६ ॥ देव दर्पात्तवारातिः स्फीतबाहुबलैबेलैः । सनपल्लीसमीपस्थामुपतस्थे सरस्वतीम् ।। ३७ ।। किंतु धातुर्विपर्यास इव तस्यावसीयते । प्रतीपः सांप्रतं येन मान्यानप्यवमन्यते ।। ३८॥ हितमप्यहितं मित्रमप्यमित्रस्तव द्विषः । भागधेयविपर्यासात्संप्रति प्रतिभासते ॥ ३९ ॥ सनपल्यां ततो गत्वा देव गृह्णातु कार्मुकम् । मगधानामधीशोऽयं यातु जामातुरन्तिकम् ॥ ४० ॥ तदाकर्ण्य मुकुन्दोऽपि कुन्दोज्वलमुखाम्बुजः । प्रतिष्ठते स देवक्या कृतप्रस्थानमङ्गलः ॥ ४१॥ जरासन्धेन योद्धव्यमिदानी कृष्णवैरिणा। इति प्रस्मरोत्साहाः प्रचेलुः पाण्डुसूनवः ।। ४२ ॥ औदासीन्यादसंपूर्णकौतुकाः कौरवाहवे । पुरो बभूवुरौत्सुक्यात्कुमारा मुरविद्विषः ॥ ४३ ॥ उपाजगाम संग्राममहोत्सवसमुत्सुका । सनपल्लीवनान्तेषु जनार्दनपताकिनी ॥ १४ ॥ आकर्ण्य मगधेशेन चक्रव्यूह प्रकल्पितम् । निबिडं गरुडव्यूहं कारयामास केशवः ॥ ४५ ॥ ये पुरा वसुदेवेन वैताब्ये संचरिष्णुना । सहस्ररुपकाराणां मित्रतामुपनिन्यिरे ॥ ४६॥ तेऽथ साहाय्यमाधातुमाहवक्षमबाहवः । समुद्रविजयं भूपमुपाजग्मुर्नभश्चराः ॥ १७ ॥ (युग्मम्) ते प्रणम्य सुखासीना यदुराजं व्यजिज्ञपन् । सन्ति विद्याधराः केचिद्देव त्वदरिपाक्षिकाः ॥ १८ ॥