पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६०२. काव्यमाला। आस्माकीनध्वजिन्यां तु त्वमेकोऽतिरथिः परम् । येऽप्यन्ये सन्ति राजन्यास्तेऽपि नैव निजास्तव ॥ २३ ॥ सहोदयव्ययाः पत्रपुष्पप्रायास्तरोनिजाः । भृङ्गास्तु बहिरायाताः खलोभेनेव सेवकाः॥२४॥ विष्णोः षाड्गुण्यनैपुण्यं देवो वेद खयं पुरा । पलायामास यत्कंसं हत्वा जामातरं तव ॥ २५॥ तदा हि वाहिनीसिन्धोर्देवस्याभिमुखोऽभवत् । विष्णुर्निर्नाम निर्मज्जन्केन रक्ष्येत संयुगे ॥ २६ ॥ त्वां विज्ञाय बलीयांसमात्मानमवलं पुनः । विष्णुरात्मपरित्राणं पलायनममन्यत ।। २७ ।। पारावारोपकण्ठे च नव्या द्वारवती पुरीम् । प्राप्य देवकृतां दैवमज्ञासीदानुकूलिकम् ॥ २८॥ इदानीं तु समासाद्य कोटिशः सुभटान् सुतान् । बान्धवं नेमिनाथं च सोऽप्यागात्सायुगीनताम् ॥ २९ ॥ तदस्याधिक्यमसत्तो बलेन च नयेन च । भरतार्धशुभोदर्कस्तस्मान्नायमुपक्रमः ॥ ३० ॥ खामिन्नस्मा रारम्भाद्विमृश्याशु विरम्यताम् । माभूदभूतपूर्वस्ते चिरादाजी पराजयः ॥ ३१॥ निशम्य सोमकस्यैनां गिरं गीतारिविक्रमाम् । अभ्यधान्मगधाधीशः क्रोधारुणविलोचनः ॥ ३२ ॥ आः सोमक त्वमप्येवं जिह्वां नालोच्य जल्पसि । भरतार्धपतिः काहं क च गोपोऽब्धिकच्छपः ॥ ३३ ॥ किं लज्जितोऽसि नोत्कर्षान्मृगेन्द्रान्मृगधूर्तकम् । अयमुन्मूल्य गोपालं कुर्वे निष्कण्टका महीम् ॥ ३४ ॥ इत्याक्षिप्य तमुत्तालः कालः प्रत्यवनीभुजाम् । आदिदेश विशामीशः प्रयाणाय पताकिनीम् ॥ ३५ ॥