पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दूतोऽभ्येत्य जरासन्धं धराधीशं व्यजिज्ञपत् । सर्वो देव तवादेशः केशवाय निवेदितः ॥ १० ॥ ततोऽप्यधत्त भूपालः किंचित्सोमक पृच्छ्यसे । ब्रूहि गोपः स किंरूपः किंबलः किंनयोऽपि वा ॥ ११ ॥ वक्त प्रचक्रमे सोऽथ यथादृष्टं निगद्यते । विध्यान्मयि देवश्चेन्नाप्रसादस्पृशो दृशः ।। १२ ।।' वपुष्मदिव शोण्डीर्यमुत्साहो देहवानिव । संगताङ्ग इवानङ्गः स गोपो देवरूपतः ॥ १३ ॥ तद्दर्शनादरीणां च नारीणां च पदे पदे । आत्मविस्मारकः कोऽपि वेपथुः प्रथतेतमाम् ॥ १४ ॥ न देवस्य समः कश्चित्सेनया चतुरगया । किंतु सूराः सगोत्राश्च सर्वेऽत्यल्पेऽपि तहले ॥ १५ ॥ योऽस्य बन्धुः कनिष्ठोऽस्ति समुद्रविजयात्मजः । अरिष्टनेमिभगवान्सोऽरिष्टं द्विष्टभूभुजाम् ॥ १६ ॥ किं ब्रूमो विक्रमं तस्य स्खकीये लीलयैव यः । दोर्दण्डशिखरे धात्रीं छत्रीकर्तुमपि क्षमः ॥ १७ ॥ यस्तु ज्यायांस्तयोर्बन्धुर्बलदेव इति श्रुतः । अपूर्वः पूर्वनष्टानां वैरिणां शरणं रणे ॥ १८॥ ततो वैरिवरूथिन्यामेतेऽतिरथयस्त्रयः । तदीयतनुजन्मानः कोटिशस्तु महारथाः ॥ १९ ॥ कृतज्ञास्तनयाः पाण्डोरुड्डामरतरौजसः । प्राणैरपि प्रियं क समीहन्तेऽधुना हरेः ॥ २०॥ तारकैरिव नः सैन्यैः सूर्याचन्द्रमसाविव । तेजखिनौ सहिष्येते कथं भीमार्जुनौ युधि ॥२१॥ उत्पातपवनेनेव रणे कीचकवैरिणा । क्षिप्ताः पांशुचयक्षेपं प्रेक्षिताः कैर्न कौरवाः ॥ २२ ॥ '७६