पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विज्ञप्तिमेवं चरणप्रणामपूर्व जयोदन्तपुरःसरं च । प्रयास्यता सात्यकिना तदानीं तपःसुतः कारयति स्म पाण्डोः१११ इत्थं क्रोधाद्विधाय प्रधनभुवि रिपुत्रातकल्पान्तमन्तः प्रीतिं तां तां वहन्तः पुनरवनिपरीभोगलाभप्रसूताम् । तुष्टिं पुष्टामरिष्टद्विषति रचयितुं मागधक्षोणिभर्तुः संहारेणाथ तस्थुः किसलयितमहस्ताण्डवाः पाण्डवेयाः ॥११११ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कौरवयुद्ध- वर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः । दुर्योधनवधक्रुद्धमगधेशनिदेशतः । दूतः समेत्य वाक्पूतः कंसारातिमथाभ्यधात् ॥ १॥ समाप्य कौरवान्दृप्यः कृष्ण मा स्म मनागपि । त्रिखण्डाखण्डलो यावद्विजयी मगधेश्वरः ॥ २ ॥ प्रियं जामातरं कसं सुहृदं च सुयोधनम् । अत्युत्सुकोऽयमाक्रष्टुं द्वावप्येतौ तवोदरात् ।। ३ ।। किंतु त्वां व्याहरत्येषा पिच्छिला शोणितोर्मिभिः । अनेकाक्षौहिणीरुण्डैर्भूरियं स्थपुटापि च ॥४॥ ततस्त्यक्त्वा कुरुक्षेत्रं संपरायक्षमक्षमे । सनपल्याह्वये ग्रामे संग्रामस्त्वावयोरयम् ॥ ५॥ विस्फुरच्छपरीनेत्रा तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नाप्रसन्नाम्बुरियमेव सरखती ॥ ६॥ इत्युक्त्वा विरते दूते सावज्ञं केशवोऽब्रवीत् । बुभुक्षितानामसाकमामन्त्रणमिदं वचः ॥ ७ ॥ जज्ञे नाद्यापि महाहोः सौहित्य कसकौरवैः । विधास्यति जरासन्धः पुनस्तदधुना ध्रुवम् ॥ ८॥ तत्रैते वयमायाता एव सोऽप्येतु सत्वरम् । एवमाख्याय तं दूतं विससर्ज जनार्दनः ॥ ९॥