पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५९८ काव्यमाला। चेत्प्रसन्नमना एव वर्तसे यदि वा मयि । तन्निजैर्मां निषिञ्चस्व विलोकनसुधारसैः ॥ १०८४ ॥ मां विहाय पुरा नाथ नैव लीलावनेऽप्यगाः । किमद्य परलोकाय प्रस्थितोऽसि मया विना ॥ १०८५ ॥ स्वामिन्विश्वस्य विश्वस्य नित्यमास्थाय नाथताम् । प्रयातास्म्यहमप्यद्य त्वां विना नन्वनाथताम् ॥ १०८६ ॥ ममाभूत्त्वद्विमुक्तायाः पूषाप्येष तमोमयः । जाताश्चैते दवप्रायाः स्वामिन्प्राभातिकानिलाः ।। १०८७ ॥ पतत्रिण इव ध्वस्ते कुलायजगतीरहे । किं विपन्ने त्वयीदानीं श्रयीयुरनुजीविनः ॥ १०८८।। भानुमत्यामिति स्फार क्रन्दन्त्यां करुणैः स्वरैः । दुःशल्याप्यथ गान्धारीधृतराष्ट्रतनूद्भवा ॥ १०८९ ।। दुर्योधनखसा प्राणप्रियं समरशायिनम् । आसाद्य सिन्धुभूपालं रुदती पर्यदेवत ।। १०९० ॥ (युग्म हाभिराम गुणग्राममरालकुलमानस । हा सिन्धुवनितानेत्रकैरवाकरचन्द्रमः ।।.१०९१ ।। न नामास्ति ममानृण्यं प्राणेश प्रणयेऽपि ते। महन्धोर्यत्पुनः प्राणान्खानदास्तत्र किं ब्रुवे ॥ १०९२ ॥ हा ममास्तमिते तुल्यं पितृश्वशुरयोः कुले । मण्डले दर्शयामिन्या सूर्याचन्द्रमसोरिव ॥ १०९३ ॥ यै ज्ञायि पुरा काचित्कथापि परिपन्थिनाम् । त्वां विना ते महावीर कि भविष्यन्ति सिन्धवः ॥१०९४ मित्रकृत्यमयप्राणे स्वामिन्नस्तं गते त्वयि । स्वच्छन्दमद्य मोदन्तां त्वन्मित्राणामरातयः ।। १०९५ ।। इतोप्याप्यकरं पत्युरङ्गुलीयोपलक्षितम् । इति भूरिश्रवःपल्यस्तारं परिदिदेविरे ॥ १०९६.॥