पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । प्राप्य पत्युर्मुखं काचिच्चुम्बति स्म पुनः पुनः । अपरा वपुरासाद्य परिरेमे मुहुर्मुहुः ॥ १०७१ ॥ अन्यासक्तं पतिं काचित्प्रागप्राप्तोपगृहना । तदानीं तु गतस्पन्दं स्वच्छन्दं परिषखजे ॥ १०७२ ।। अङ्गमारोप्य गान्धारी ततो दुर्योधनं सुतम् । चक्रन्द तारपूत्कारं सदैन्यमिति भाषिणी ॥ १०७३ ॥ हा वत्स हा महोत्साह हा शौण्डीरशिरोमणे । हा वीररसकासार हा कुलाम्बरभास्कर ॥ १०७४ ॥ मदेकहृदयो भूत्वा पूर्वमुर्वीपुरंदर । असंस्तुत इवेदानीं नेक्षसे किं दृशापि माम् ॥ १०७५ ॥ पूर्वमाज्ञाप्य भूपालान्तत्तत्कृत्येष्वनारतम् । कामं किमपि तूष्णीको वाचंयम इवाधुना ।। १०७६ ॥ क्षित्यवेक्षणमाकान्याङिद्रां न कदाप्यगाः। किमेकहेलयेदानीं दीर्घनिद्रा निषेवसे ॥ १०७७ ।। वत्सलस्यैव ते वत्स कोपः क इव मातरि । क्रन्दन्त्यामपि येनोच्चै!त्तरं मयि दीयते ॥ १०७८ ॥ विलपन्त्यामिति खैरं गान्धार्या भानुमत्यपि । प्रियाद्री शिरसि न्यस्य रुदन्तीत्यवदन्मुहुः॥ १०७९ ॥ हा नाथ हा रिपून्माथ हा मानकनिकेतन । हा सौभाग्यामृताम्भोधे हा रूपग्लपितस्मर ॥ १०८०॥ हा कल्पपादपौदार्य हा सुधामयवाङ्मय । हा विश्वकमलादित्य हा नेत्रतुहिनद्युते ।। १०८१ ।। मांसलेऽपि व्यलीके त्वं नासंभाषं मयि व्यधाः । निळलीकामपीदानी मां न सभाषसे कथम् ॥१०८२ ॥ मदीयं यदि वा किंचिद्व्यलीकमपि मन्यसे । तदाविष्कुरु येन त्वां सद्यः प्रत्याययाम्यहम् ॥ १०८३ ॥