पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तासां युगपदाक्रन्दप्रतिध्वनिभिरुद्धतैः । क्रन्दन्त्य इव भान्ति स दिशस्तच्छोकविक्लवाः ॥ १०५८ ॥ गदापहारभन्नोरं(१) परिच्छदनिवेदितम् । गान्धारी सुषया सार्धं कौरवेश्वरमभ्यगात् ॥ १०५९ ।। शोणितोक्षितसर्वाङ्गानन्या अपि मृगीदृशः। उपलक्ष्योपलक्ष्य खान्वल्लभानभिशिश्रियुः ।। १०६०॥ पृथक्पृथक्परिभ्रष्टानस्राविलविलोचना । शरीरावयवान्पत्युः कापि कृच्छादमीलयत् ॥ १०६१ ॥ वक्षःपीठेऽतिसंश्लेषसक्तैः स्वस्तनकुङ्कुमैः । काप्युपालक्षयत्पत्युः कबन्धं न पुनः शिरः ॥ १०६२ ॥ अन्त्यचुम्बनसंक्रान्तात्कस्तूरीतिलकान्निजान्(त) । प्रत्यभ्यजानात्कान्तस्य काप्यास्यं न पुनर्वपुः ।। १०६३ ॥ काप्यन्तचुम्बनव्याजादभिज्ञानं प्रियानने । निजौष्ठयावकैः कृतं नापश्यद्रुधिरैस्तदा ॥१०६४ ॥ स्वकान्तवदने मौग्ध्यादन्यस्याने नियोजिते । चिरं भर्तृविवादोऽभूत्कस्याश्चित्तस्य कान्तया ।। १०६५॥ कापि सर्वाङ्गसंसक्त रक्तैरव्यक्ततां गतम् । स्वप्राणेशभ्रमादन्यमप्यालिङ्गत्पुनः पुनः ॥ १०६६ ।। मानात्काप्यन्तिमाश्लेषे निराकृत्य प्रियं पुरा । मृतं तु सखजे खागः शोचन्ती तत्पुनस्तमाम् ॥ १०६७ ॥ भर्तुरादाय मूर्द्धानं करे कायगवेषिणी । कापि क्षेत्रक्षितिं सी काली साक्षादिवाभ्रमत् ॥ १०६८॥. सापत्यार्ता पुरा पत्युः पञ्चतामप्यचिन्तयत् । तदानीं तु मृते तस्मिन्नशोचत्काचिदुच्चकैः ॥ १०६९ ॥ कान्तमङ्गे गतप्राणं चिकीर्षन्त्यो निजे निजे । तदानीमप्यभूदुच्चैः सपत्न्योः कलहो महान् ॥ १०७० ॥ 3