पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। पाण्डवचरितम् । ५९५ सुता अपि सतां द्वेष्याः शत्रुवत्कलितानयाः । न्यायिनस्तु परेऽप्युच्चैवल्लभा एव पुत्रवत् ॥ १०४५ ॥ अमी तु पाण्डवाः स्फीतनयाश्च तनयांश्च ते । तदेतेषु विशेषेण प्रसत्तिं गन्तुमर्हसि ॥ १०४६ ॥ क्रमावनतमूर्द्धानो गान्धायो त्वयि चान्वहम् । भाक्तं चैते करिष्यन्ति कोरवेभ्योऽधिकां ध्रुवम् ॥ १०४७ ॥ तत्प्रसन्नं मनः कृत्वा विस्मृत्य च रुषं मनाक । उभावपि युवां दत्तं पृष्ठेऽमीषां करं मुदा ॥ १०४८॥ सर्वथाप्यस्य विश्वस्य कलय त्वमनित्यताम् । । पीडयेत्पुत्रशोकोऽपि कं हि नाम विवेकिनम् ॥ १०४९॥ . इति मन्दीकृतामर्षो गिरा दामोदरीयया । तौ पृष्ठे पाण्डवेयानां कृच्छ्रेण ददतुः करम् ॥ १०५०॥ दैवस्यैवापराधोऽयं न वो नास्मतनूरुहाम् । इत्युत्थाप्य क्रमानमानमूनालिङ्गति(तः) म तौ ॥ १०५१ ॥ व्याजहाराथ गान्धरी वत्सा महालकाः स्थ चेत् । तन्मां संग्रामसीमानमिदानी नयत द्रुतम् ॥ १०५२ ।। यथा विप्रोषितासूनां सर्वेषामात्मजन्मनाम् ।। करोमि मन्दभाग्याहमन्त्यमाननदर्शनम् ॥ १०५३ ॥ ततस्तिग्मद्युतौ पूर्वशैलशृङ्गान्तरङ्गिणि । समवस्थाप्य तत्रैव धृतराष्ट्रं कथंचन ।। १०५४ ॥ पाण्डवेयाः स्वयं भक्त्या दत्तहस्तावलम्बनाम् । उदश्रुनयनां निन्युर्गान्धारी समराजिरम् ।। १०५५ ॥ देवरीभिः समं सर्वराजन्यानां च यौवतैः । श्वश्रूमन्वचलद्भानुमती दुर्योधनप्रिया ॥ १०५६ ।। तामनेकमहावीरकरम्बनिकराङ्किताम् । वीक्ष्य युद्धक्षितिं ,तासां हृदयानि विदुद्रुवुः ॥ १०५७ ।।