पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तन्मुञ्च शुचमात्मानं संस्थापय विसंस्थुलम् । द्रुपदस्य तनूजासि श्रीपाण्डोश्च वधूरसि ॥ १०३२ ॥ इत्याद्यैर्मुरजिद्वाक्यैः पाण्डवेयानुमोदितैः । मुञ्चति स्म शनैः शोकश्यामिकां द्रुपदात्मजा ॥ १०३२ ।। अथ प्रभातकल्पायां क्षपायां शौरिपाण्डवाः । धृतराष्ट्रं सपलीकमपशोकयितुं ययुः ॥ १०३४ ॥ तत्राभ्येत्य भृशं मनौ शोकनाम्नि महार्णवे । गान्धारीं धृतराष्ट्रं च नमस्यन्ति स्म पाण्डवाः ॥ १०३५ ।। भक्तिप्रहृतरं तेषु नमस्कुर्वत्सु रोषणौ । पुनः पीनोच्छलच्छोकौ तौ पराञ्चौ बभूवतुः ॥ १०३६ ॥ पाण्डवण्वथ तत्पादतले ललितमौलिषु । वाग्मिनामग्रणीरेवं गदति स्म गदाग्रजः ॥ १०३७ ।। राजन्नमी न किं पाण्डुसूनवस्तव सूनवः । न कचिद्भक्तिरप्येषां पाण्डुतस्त्वयि हीयते ॥ १०३८ ॥ पूज्या हृदि पृथातोऽपि गान्धारी धारयन्त्यमी । कुरबोऽपि तपासूनोर्मीमादिभ्योऽपि वल्लभाः ॥ १०३९ ।। यत्तु दूरमनाख्येयमभूदेतदमङ्गलम् । तत्र मन्ये दुरात्मायं विधिरेवापराध्यति ॥ १०४० ॥ पञ्चग्राम्याप्यमी पाण्डुसुताः संघित्सवस्तदा । कौरवेण निरस्ता यदेवदौरात्म्यमेव तत् ॥ १०४१ ॥ यन्निराचक्रिरे तेन गिरो युष्मादृशामपि । हेतुस्तत्रापि जागर्ति केवलं भवितव्यता ॥ १०४२ ॥ किं च बन्धुभिरप्यातां पाण्डवेया यथा तथा । त्यजेयुर्यदि धात्रीं तल्लज्जयेयुर्न ते कुलम् ॥ १०४३ ॥ कुर्वता पुनरन्यायमयौष्माककुलोचितम् । यदि जानासि तत्कामं कौरवेणासि लजितः ॥ १०४४ ॥