पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५९३ पितृस्वामिवधक्रोधादयं हि द्रोणनन्दनः । श्रान्तसुप्तान्ध्रुवं हन्याधुष्मानेव चमूस्थितान् ॥ १०१९ ॥ तदेतावत्समस्तोऽयमारम्भो विफलीभवेत् । पुत्रास्तु सत्सु युष्मासु नातिदुर्लम्भसंभवाः ॥ १०२०॥ तद्विमुच्य शुचं वेगात्प्रतिष्ठध्वं च प्रति । सान्त्वयामो यथा कृष्णां पुत्रभ्रातृवधार्दिताम् ॥ १०२१ ॥ इत्यच्युतगिरा शोकं शिथिलीकृत्य पाण्डवाः । स्थानस्थानोद्यदाक्रान्दं निजं शिबिरमागमन् ॥ १०२२ ॥ तत्र भूलुठनव्यग्रामग्रतो ललितालकाम् । क्रन्दन्तीं तारतारं ते ददृशुर्द्धपदात्मजाम् ॥ १०२३ ॥ हा वत्सा हा महावीरा हा जनन्येकचेतसः । क्व नाम यूयं याताः स्थ मन्दभाग्यां विमुच्य माम् ॥१०२४॥ इत्याद्यनेकधाबद्धपरिदेवनविक्लवाम् । सान्त्वयामास कंसारिरिति द्रुपदनन्दिनीम् ॥ १०२५॥ कल्याणि वीरपत्नीनां न खल्वेष विधिः कचित् । शोकेन परिभूयन्ते ह्यल्पीयस्यः पुरंध्रयः ॥ १०२६ ॥ प्रनष्टरात्मजैराजौ लजन्ते वीरयोषितः । मोदन्ते तु श्रितैर्मृत्युमूर्वीभूतैर्विजित्य वा ॥ १०२७ ॥ बान्धवौ तव तौ धन्यौ धन्यास्ते च तनूद्भवाः । कुलैकतिलकैः प्राणान्यैस्त्यजद्भिर्निजात्रणे ॥ १०२८ ॥ दीयते म चिरं तुभ्यं न वैधव्यमखण्डितम् । चक्रे च कीर्तिरात्मीया लोकालोकावलोकिनी॥१०२९॥(युग्मम्) रक्षिता अपि हि प्राणा यास्यन्त्येव कदाप्यमी । ननु कसिंश्चिदप्यर्थे यान्ति चेत्तत्फलं महत् ॥ १०३० ॥ . बान्धवा अपि हन्यन्तां म्रियन्तां तनया अपि । नन्दन्ति दयितानां तु कुशलेन पतिव्रताः ॥ १०३१ ॥