पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५९२ काव्यमाला। हा दुर्योधन कुत्रावां विहाय गतवानसि । किं नामाभूद्विरोधिभ्यस्तदपीदममङ्गलम् ॥ १००६ ॥ बभूष पुरतो यस्य वासवाऽपि कृपास्पदम् । दैवादहह तस्यापि का तवेयं दशाभवत् ॥ १००७ ॥ भवन्तं हरता वीर मृत्युनाथ दुरात्मना । आकृष्टा यष्टिरेवेयमन्धयोरावयोः करात् ॥ १००८ ॥ वीर-योतेऽद्य विश्वानामेकचन्द्रमसि त्वयि । को×नातु निराधाराननुजीवितकौरवान् ।। १००९ ॥ त्वां विना नगदप्येतदद्य शून्यं बभूव नौ । शोकान्धयोर्ध्रुवयं शाश्वती भवित्ता तमी ।। १०१०॥ इत्थं विलपतोस्तार क्रन्दतोबहुमूर्च्छतोः । निघ्नं निप्रशतोर्वक्षः क्षमापृष्ठे लुठतोर्मुहुः ॥ १०११ ॥.. हालाहलयं वह्निमयं मृत्युमयं जगत् । तदाभूत्सुतशोकेन गान्धारीधृतराष्ट्रयोः ॥१०१२।। (युग्मम् इतश्च पाण्डवाः क्रुद्धं प्रसाध शितिवाससम् । तावदुद्वेपथुर्मीत्या वेगादागत्य सात्यकिः। पाश्चालादिवधोदन्तमादितस्तमचीकथत् ॥ १०१४ ।। तूर्णमाकर्ण्य तं कर्णक्रोडक्रकचकर्कशम् । शोचतः पाण्डवान्काम मुरारातिरवोचत ॥ १.१५॥ वीराः किमिव युष्माकमप्यदः स्फुरितं शुचम् । काञ्चनस्याप्यसौ किंचिन्मन्ये मालिन्यसंभवः ॥ १०१६ ॥ ज्ञातसंसारतत्त्वाश्चेद्यूयमप्यास्पदं शुचः । भविष्यत ततो नूनमादित्योऽपि तमापदम् ॥ १०१४ संभाव्य द्रौणिमुख्यानामिदमप्यतिसौप्तिकम् । स्वानीकमानयं युष्मान्बलानुनयहेतवे ।। १०१८॥ १. 'खानीकं प्रति संचेलुः सुप्रसन्नमुखश्रियः' इति भवेदिति गद्यपाण्डवचरिता- ज्ज्ञायते. ...................