पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।. ५९१ तानुद्वीक्ष्य स वैलक्ष्यश्यामीकृतमुखद्युतिः । दीर्घं निश्वस्य भूयोऽपि पपात सहसा भुवि ।। ९९३ ॥ जल्पति स्म च धिग्मूखी कोऽयं युप्मत्पराक्रमः पाञ्चालाः खलु युष्माभिर्जनिरेऽमी स्तनधयाः ॥ ९९४ ॥ सन्ति दुष्टास्तु ते स्पष्टमखण्डा एव पाण्डवाः । क्व वा भाग्यानि मे तानि यैः पश्येयं हतानमून् ॥ ९९५ ।। इति मन्दं वदन्नेवातुच्छमूर्छामिराकुलः । क्रौर्यत्रस्तैरिव प्राणैस्त्यज्यते स सुयोधनः। ९६ ॥ (त्रिभिर्विशेषकम्) ते च किंकार्यतामूढबुद्धयो बद्धभातयः । परित्यज्य यथासंस्थमेव कौरवपुङ्गवम् ॥ ९९७ ॥ अश्वत्थामादयः काममन्योऽन्यस्यापि लज्जिताः । विषण्णमनसो जग्मुः क्वापि कापि पृथक्पृथक् ।।९९८॥(युग्मम्) समस्तमथ वृत्तान्तमेनं विज्ञाय कोविदः । उपेत्याख्यत्सदारस्य धृतराष्ट्रस्य संजयः ।। ९९९ ।। तन्निशम्य श्रुतिक्रोडपविपातविडम्बनम् । गान्धारी धृतराष्ट्रश्च सहसैव मुमूर्च्छतुः ॥ १०००॥ शोकामिदहमानास्थित्रटत्कार इवोच्चकैः । तत्परीवारलोकानामाक्रन्दध्वनिरुद्ययौ ।। १००१ ॥ तौ मरुद्भिनिशाशीतैश्चिरादासाध चेतनाम् । एवं परिदिदेवाते बद्धबाष्पाम्बुपलवलौ ॥ १००२ ।। हा वत्स धीरधौरेय हा मानकनिकेतन ।। हा गुणोर्वीरुहाराम हा यशःक्षीरनीरचे ।। १००३ ।। हा कौरवकुलोत्तंस हा गुरुष्वेकवत्सल । हा निःसामान्यसौजन्य हा दुराक्रमविक्रम ॥ १००४ ॥ हा कृपाणपयःपूरप्लावितारातिमण्डल । हा नताखिलभूपालमौलिमालाश्चितक्रम ॥ १००५॥