पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विशिखा इव पञ्चेषोर्जगद्भिरपि दुर्जयाः । क्रुद्धाः पञ्चापि पाञ्चाला भजन्ते स्माभ्यमित्रताम् ॥ ९८० ॥ (युग्मम्) पाण्डवेयद्रुपद्रात्रौ द्रौणिप्रभृतयोऽपि ते । धावन्ति स्माधिकं क्रोधगरिष्ठभुजसौष्ठवाः ॥ ९८१ ॥ अथाभूदुभयेषामप्यमीषामितरेतरम् । विम× पत्रिभिः प्राणप्रयाणप्रवणो रणः ॥ ९८२ ॥ प्रतिप× साध्या, सम्यग्मन्त्राङ्गैरिव पञ्चभिः । कार्ष्णेयैर्न्यक्क्रियन्ते स्म द्रौणिमुख्यास्त्रयोऽपि ते ॥ ९८३ ॥ तैरथोजागरूकाभिलज्जाभिरतितर्जितैः । सारसर्वाभिसारेण प्रहर्तुमुपचक्रमे ॥ ९८४ ॥ पाञ्चालविशिखान्बाणश्रेणिद्रौणेरशोषयत् । नैदाघस्य रवैरुस्रमण्डलीव जलाशयान् ॥ ९८५ ।। पञ्चताशालिनीं शश्वद्विभ्रतामभिधामपि । काणेयानां ततश्चक्रे पञ्चतैव तदाशुगैः॥ ९८६ ॥ तच्छिरांसि क्षणाच्छित्त्वा पाण्डवेयधियैव तैः । अश्वत्थामादिभिः प्रीतैर्निन्यिरे कौरवान्तिकम् ।। ९८७ ।। वेदनातिशयान्मूर्छन्मू मुकुलितेक्षणः तत्र तैर्ददृशे श्वासमात्रशेषः सुयोधनः ॥ ९८८ ॥ सरःसलिलसेकेन प्रत्याहृत्याथ चेतनाम् । सानन्दस्य पुरस्तस्य मुञ्चन्ति स शिरांसि ते ॥ ९८९ ।। क्षणाच्चारणिकाष्ठानि ते निर्मथ्य पृथूर्जिताः । रचयांचक्रुरुयोतं घोतिताखिलभूतलम् ॥ ९९० ।। अभ्यधुश्च धराधीश छिन्नान्पञ्चाप्यमून्पुरः । पाण्डवानां क्षणं मौलीनालोक्य भव निर्वृतः ॥ ९९१॥ इत्येतया गिरा तेषां मनागुन्मथितव्यथः । पूर्वाङ्गत्यक्तभूमिस्तान्सम्यग्मौलीच्यलोकयत् ॥ ९९२ ॥