पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

> पाण्डवचरितम् । अजेयोऽसि त्वमेकोऽपि शात्रवाणां शतैरपि । कृतवर्मकृपाचार्यसंगतस्तु किमुच्यते ॥ ९६७ ।। इत्यादि द्रौणिमाभाष्य कृतवर्मकृपान्वितम् ।। वधाय पाण्डुपुत्राणां प्राहिणोद्धृतराष्ट्रभूः ।।९६८ ॥ ते त्रयोऽपि ततोऽनेकमटश्रेणिविसंकटम् । अह्नाय पाण्डवेयानां स्कन्धावारमुपागमन् ॥ ९६९ ।। रे कौन्तेयचमूसैन्याः सत्वरं कुरुतायुधम् । क्रुद्धो युष्मासु नन्वश्वत्थामनामा यमोऽधुना ।। ९७० ॥ इति द्रौणिगिरं श्रुत्वा स्फूर्जथुस्फूर्ति×पहम् । चापारोपनिनादं च त्रयाणामपि दोभृताम् ॥ ९७१ ॥ द्रवन्निद्रासुखं काममुच्छलतुमुलारवम् । क्षुभ्यति स क्षणात्सवै शिबिरं पाण्डुजन्मनाम् ।। ९७२ ॥ त्रयाणामपि निःशेषं तेषां विशिखपङ्क्तिभिः । कल्पान्ताशनिकल्पाभिः पाण्डवानीकमानशे ९७३ ॥ कोदण्डमधिमौर्वीकं कुर्वाणौ रभसात्ततः । धृष्टद्युम्नः शिखण्डी च धावतः स्म महाभुजौ ॥ ९७४ ॥ ततस्ताभ्यां भृशं दुष्टाहाभ्यामिव सर्वतः । क्रियते स्म कृपादीनां बाणवृष्टेरवग्रहः ।। ९७५॥ पराक्रममयीं कांचिदिष्टिमिष्ट्वा भटाहुतिम् । तौ क्षणालम्भितौ शान्तिमश्वत्थामादिमिस्ततः ॥ ९७६ ॥ मूर्द्धानौ तैर्निकृन्तद्भिधृष्टद्युम्नशिखण्डिनोः । वैरिनिर्यातनं काममकारि द्रोणभीष्मयोः ।। ९७७॥ तयोनिहतयो?षरागयोरिव तैः क्षणात् । कर्मानीकमिवानेशत्यार्थीयमखिलं बलम् ॥ ९७८ ।। पञ्चानां पाण्डवेयानां द्वितीया इव मूर्तयः । पाञ्चालीकुक्षिकासारपुण्डरीकास्ततो जवात् ।। ९७९ ॥