पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। किं त्विदानीमधोऽस्माभिः स्थितैर्यग्रोधभूरुहः । वनेऽस्मिन्महती दृष्टा युक्तिः प्रत्यर्थिमन्थने ॥ ९५४ ॥ तत्र हि क्षणदादक्षचक्षुषाऽभ्येत्य तत्क्षणात् । काकानीकपुलकेन सर्वं सुप्तमहन्यत ॥ ९५५ ।। तद्दृष्ट्वा तुष्टचेतोभिरित्यस्माभिरचिन्त्यत । यदेकोऽप्यखिलान्हन्ति कालमालम्ब्य शात्रवान् ॥ ९५६ ॥ ××भेरपि तन्नूनमिदानीं निशि पाण्डवाः । रणोण×तथा स्वैरस्वपना नातिदुर्जयाः ॥ ९५७ ॥ इत्यालोच्य वचं रात्रिसंगरे कृतसंगराः । भवदादेशमादातुमिहागच्छाम संप्रति ॥ ९५८ ।। जीवतस्ते बलाच्छित्त्वा पाण्डुपुत्रशिरांसि चेत् । दर्शयेमहि तत्किचिदानृण्यं त्वयि नो भवेत् ॥ ९५९ ॥ इत्येतैर्वचनैस्तेषां पीयूषरसवर्षिभिः । विस्मृत्य वेदनावेगमाकृष्याश्लिष्यति स तान् ॥ ९६० ॥ वक्ति स्म च महावीरा जल्पतेदं पुनः पुनः । तच्छिरांसि द्विषां छित्त्वा दर्शयिष्यामहे तव ।। ९६१ ।। न तत्किमपि युष्मासु यन्न संभाव्यते खलु । किंचिन्नास्त्येव यच्चिन्तारतस्यापि दवीयसि ॥ ९६२ ॥ तज्जवाद्गच्छत छित्त्वा मौलीन्दर्शयत द्विषाम् । मदीयैर्न खलु प्राणैः स्थातुमीशिष्यते चिरम् ॥ ९६३ ॥ अश्वत्थामन्गुरोस्तस्य तनयोऽसि त्वमौरसः । मानसोऽहं पुनस्तेन महज्ज्ञातेयमावयोः ॥ ९६४ ॥ तद्विधृत्य मयि प्रीतिमाविकृत्याप्यनुग्रहम् । मूर्ध्नः पाण्डुमुवां कृत्तान्यदि दर्शयसि क्षणात् ॥ ९६५ ॥ प्रस्थितस्य तदेदानी वर्तनी पारलौकिकीम् । ममानन्दमयं दत्तं पाथेयं भवता भवेत् ।। ९६६ ॥ (युग्मम्)