पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम्। > ममैतन्मुसलं कोपादन्यायस्यास्य यत्फलम् । पञ्चानां पाण्डपुत्राणां तत्सद्योऽदर्शयिष्यत ।। ९४१ ॥ नाभविष्यदिदं हन्त यदि ज्ञातेयमन्तरा । तथापि मुखमीक्षिष्ये नाहमेषामतः परम् । ९४२ ॥ इति संकर्षणो रोषकलुषः परुषाक्षरम् । उदीर्य निजमावासं त्वरितं त्वरितं ययौ ।। ९४३ ॥ रौहिणेयानुवृत्त्येव कर्मसाक्ष्यपि तत्क्षणात् । रोषावेशवशात्तानः क्वापि द्वीपान्तरेऽगमत १४ ॥ तथैव पतिते काम वेदनाविमनीकृते. कोपादुज्झति कौरव्ये निश्वासान्नासिकंधमान् ॥ ९४५ ॥ मुरारातिरथाकृष्य साकूतः पाण्डुनन्दनान् । ज्यायांसं प्रातरं मान्यमनुनेतुमचालयत् ।। ९४६ ॥ दक्षौ शिविररक्षायै धृष्टद्युम्नशिखण्डिनौ । आदिश्य सह कृष्णेन पाण्डवेयाः प्रतस्थिरे ।। ९४७ ॥ आयोधनाध्वजवालैः पाञ्चालैः समलंकृतम् । आदाय सैन्यमावासाज्जग्मतुर्दुपदात्मजौ ।। ९४८ ।। ततो दिङ्मुखकस्तूरीपत्रभङ्गय इवोदगुः । कौरवेश्वरनिश्वासधूमसान्द्रास्तमश्छटाः ।। ९१९ ।। सहलगुणितध्वान्ता मूर्छाभिः कौरवेशितुः । साकं तैस्तैर्मनोदुःखैः प्रससार तमखिनी ॥ ९५० ॥ अथाभ्येत्य तथासंस्थमूचिरे मन्युगद्गदम् । कृतवर्मकृपद्रोणसूनवः कुरुपुङ्गवम् ।। ९५१ ।। महाराज त्वमेवासि मानिनामधिदैवतम् । ईदृशेऽपि स्थिते येन दैन्यं चक्रे न वैरिषु ॥ ९५२ ॥ वयं तु कर्मचाण्डालाः कृतघ्नकधुरंधराः । शत्रुभिः पश्यतां येषां लम्भितोऽसि दशामिमाम् ॥ ९५३ ।।