पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८६ काव्यमाला। किंतु चेत्प्रहरत्येनमूरुदेशे वृकोदरः। तदानीं नातिदुर्लम्भं जयं संभावयामि वः ॥ ९२८॥ भारतीमित्युपश्रुत्य फाल्गुनो वनमालिनः । कौरव्यो× पहाराय मारुति समकेतयत् ॥ ९२९ ।। तं संकेतं विदामास कोविदः कौरवाग्रणीः । रणसंरम्भसंभ्राम्यदम्बको न बकान्तकः ॥ ९३०॥ ××मग्रणीरूरुघातं वञ्चयितुं ततः । मन×शुलति स्मोर्ध्व मण्डूक इव भूतलात् ॥ ९३१ ॥ पूर्वाङ्ग इव निर्मुक्तः प्रहारस्तु बकारिणा । तस्यामाभाङ्क्षीदुभावूरू न धीर्दैवाबलीयसी ।। ९३२ ॥ उत्फालः शैलशृङ्गान्तात्कण्ठीरव इवावनौ । भग्नोरुः क्रोधधुमायमानो दुर्योधनोऽपतत् ॥ ९३३ ॥- असावथ व्यथापूरपूरितोऽपि क्रुधा मुहुः । फणीन्द्रवत्फटाघातान्गदाघातानमुञ्चत ॥ ९३४ ॥ तदवस्थेऽप्यनिर्वाणरणारम्भे च कौरवे । भीमे च जयिनि प्रीताः पुष्पाणि ववृषुः सुराः ॥ ९३५ ॥ कौरव्यग्रामणीः पीडानिमीलितविलोचनः । क्षेपं क्षेपं गदां शून्यं क्रमान्निःसहतामगात् ।। ९३६ ॥ अथाभ्येत्य मुहुर्रमः पविसब्रह्मचारिणा । पादेन दलयांचशे कोटीरं कुरुभूपतेः ।। ९३७ ।। बलभद्रस्तदालोक्य पदा मुकुटपेषणम् । रोपोन्मेषारुणीभूतसर्वाङ्गद्युतिरभ्यधात् ॥ ९३८ ॥ घिग्धिम्बतेदमक्षत्रं न म्लेच्छेष्वपि वर्तते । रिपोरपि किरीटो यत्तुषः पिण्यते पदा ।। ९३९ ।। कदाचिदपि कस्यापि नैवान्यायमहं सहे । मादृग्विधा हि सर्वेषामनाचारे चिकित्सकाः ॥९४०॥