पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । तयोरित्थमतिक्रोधादुद्धतं युध्यमानयोः । जयश्रीः सुचिरं तस्थावात्तया वरमालया ॥ ९१५ ॥ कौरवोऽथ चिराद्दृष्टिं वञ्चयित्वा कथंचन । निबिड ताडयामास मौलिदेशे मरुत्सुतम् ९१६ ॥ तत्प्रहारव्यथाभारनिर्भरभ्रमितेक्षणः । मारुतिः क्षोणिमद्राक्षीद्भ्रमदद्रिवनद्रुमाम् ॥ ९१७ ।। सत्त्वोत्कर्षादात्मानं संस्थाप्य स कथंचन | क्रोधप्रगुणितप्राणः प्रजह्रे हृदि कौरवम् ॥ ८॥ तेन दुःखासिकानामनुभूय सुयोधनः। निहन्ति स्म पुनर्मूर्ध्नि कोपाटोपावृकोदरम् ॥ ९१९ ।। तत्पीडाभिरभूदन्धंभविष्णुनयनद्वयः । निकामं निःसहीभूतसर्वाङ्ग पवनाङ्गजः ॥ ९२० ॥ तथाभूतं तमालोक्य मलीमसमुखद्युतिम् । ससंश्रममभाषिष्ट किरीटी कैटभद्विषम् ॥ ९२१ ॥ हन्त गोविन्द गोविन्द किमस्साकमुपस्थितम् । उत्तीर्य पाथसां नाथमिदं गोष्पदमज्जनम् ॥ ९२२ ॥ जिते भीष्मे जिते द्रोणे सूदिते सूतनन्दने । शल्ये निर्मूलिते शल्यराजादिषु हतेषु च ॥ ९२३ ॥ पश्यतामेव नः सोऽयं सर्वेषामपि जीवितम् । धृष्टेन धार्तराष्ट्रेण मारुतिर्यनिहन्यते ॥ ९२४ ॥ (युग्मम्) इत्यर्जुनोक्तमाकर्ण्य कंसविध्वंसनोऽवदत् । पार्थ भीमेन कौरव्यः सत्यमेवाऽस्ति दुर्जयः ।। ९२५ ॥ अयं हि खुरलीरङ्गे कुर्वाणो गदया श्रमम् । नित्यं लोहमयं भीमं भस्मसादकरोत्पुरा ॥ ९२६ ।। तदेतस्य पुरो बैरिकुले कालानलन्नपि । शङ्केन खलु बहीयान्मीमोऽपि भुजसंपदा ॥ ९२७॥