पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८४ काव्यमाला। केचित्तु मन्महे मान्यं मानिनं कौरवं विना । इयत्यपि गते यस्य सर्वान्वा हन्मि विद्विषः ॥ ९०२ ॥ मृत्युना स×× संग्रामे केलिलीलाः करोमि वा। रिपुभ्यो न पुनर्दीनं वचो वच्मीति गीःक्रमः ॥ ९०३ ।। अन्ये तु घिग्धियं धिक्क मानितां धिक्क मत्सरम् । यदुपज्ञमसौ जज्ञे कौरवस्य कुलक्षयः ।। ९०४ ॥ इत्येतान्बहतो जल्पाञ्जल्पयन्तः परस्परम् । योद्धुं कोडके तस्तस्थुः सुरखेचरमानवाः ॥ ९०५ ॥ (षड्मिः कुलकम्) कौरव्यमारुती वेगाद्दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमामात्मानं परितो गदाम् ॥ ९०६ ॥ सानुमन्ताविवोत्क्षिप्तौ कल्पान्ते मण्डलानिलैः। गदाधिपं दधानौ तौ चेरतुश्चित्रमण्डलम् ॥ ९०७ ।। राजति स्म तयो रङ्गं शौर्यरोमाञ्चकोरकैः । अन्तज्वलितकोपामिनिर्यद्धूमलवैरिव ॥ ९०८॥ कदाचित्तौ विनिर्मुक्तक्ष्वेडारावौ प्रसस्रतुः । पादमाकृष्य च खैरं कदाचिदपसस्त्रतुः ।। ९०९ ।। भुजशौण्डीरिमोद्रेकाद्धावमानोऽतिदुःसहम् । अत्याजयत्कदाप्यन्यः खां महीमितरं बलात् ॥ ९१० ॥ त्रिजगत्कौतुकास्थानं स्थानमाविश्य तौ ततः । प्रहारोदस्तहस्तायावत्यासन्नीबभूवतुः ॥ ९११ ॥ प्रक्षिप्य पुरतः पादमेकस्मिन्नभिहन्तरि । कृष्टाङ्घ्रिमङ्गनाशेन प्रहारमपरोऽत्यजत् ।। ९१२ ॥ कदाचिच्चेलतुः प्रेवाक्षरावभ्यासपाटवात् । तावन्योऽन्यगदाघातं गदयैव ररक्षतुः ॥ ९१३ ॥ तदीयगदयोर्नादैरन्योन्यास्फालनोद्भवैः । शङ्कन्ते स जगत्कोशस्फोटमाकालिकं जनाः ॥ ९१४ ॥